SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥१७३ ॥ चतुर्थं पर्व सप्तमः सर्गः श्रीसनत्कुमारचक्रिचरितम् । 888888888828282828282828282 (सप्तमः सर्गः। श्रीसनत्कुमारचक्रिचरितम्। अस्तीह काञ्चनपुरं दधानं काञ्चनश्रियम् । भोगावत्यमरपुरीलङ्कादिभ्योऽतिशायिनीम् ॥१॥ तत्रासीद् विक्रमयशा नाम प्रवरविक्रमः । रिपुस्त्रैणाश्रुनीरेद्धप्रतापेरम्मदो नृपः ।। २ ॥ तस्य पञ्चशतान्यासन्नन्तःपुरमृगीदृशाम् । यूथभर्तुर्द्विपस्येव करिण्यः प्रेमलालसाः ॥३॥ तदा चासीत् पुरे तस्मिन् सार्थवाहो महर्द्धिकः । नागदतोऽभिधानेन निधानमिव संपदाम् ॥४॥ सौभाग्यलावण्यवती रूपातिशयशालिनी । विष्णोः श्रीरिव विष्णुश्रीर्नाम्ना तस्य गृहिण्यभूत् ॥५॥ अन्योऽन्यं नीलिकारागप्रेमाणौ तौ विजहतुः । अव्याहतस्मरक्रीडासरसौ सारसाविव ॥६॥ काकतालीयन्यायेन कथमप्येकदा तु सा । दृक्पथि विक्रमयशो वसुधाभर्तुराययौ ॥७॥ तां प्रेक्ष्य विक्रमयशा दस्युनेव मनोभुवा । लुण्ट्यमानविवेकस्वश्चेतस्येवमचिन्तयत् ॥८॥ अहो ! विलोचने अस्या मृग्या इव मनोरमे । बन्धुरः केशपाशश्च कलाप इव केकिनः ॥९॥ १ रिपुस्त्रीसमूहस्याश्रुनीरेण इद्धो दीप्तः प्रताप एव इरम्मदो मेघाग्निर्यस्य सः। २ निर्बाधकामक्रीडायां रससहितौ ।३ लुण्ट्यमानं विवेक एव स्वं धनं यस्य सः। ४ नेत्रे। ५ सुन्दरः। 282828282828282828282828282 पूर्वभवः । ॥ १७३॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy