________________
चतुर्थं पर्व
त्रिषष्टिशलाकापुरुषचरिते ॥१७२॥
यथैकः स पतिः पृथ्व्यास्तथा तस्याप्यजायत । अर्हन् देवः सुसाधुश्च गुरुर्धर्मो दयामयः ॥५२॥ सदा स चैत्यपूजासु तत्पूजास्विव राजकम् । नोज्झाञ्चकार नियमं नित्यं नियमितेन्द्रियः ॥५३॥ अविरतश्रावकत्वेनातिवाह्यायुरात्मनः । सोऽन्तकाले परिव्रज्यामुपादत्त यथाविधि ॥५४॥ कौमारेऽब्दसहस्राणि पञ्चविंशतिरस्य तु । मण्डलित्वेऽपि तावन्ति दशैव तु दिशां जये ॥५५॥ चक्रित्वे तु त्र्यब्दलक्षी सहस्रा नवतिस्तथा । व्रतकाले च पञ्चाशत्सहस्राः शरदां पुनः ॥५६॥
पञ्चाब्दलक्षीमतिवाह्य जन्मतः पञ्चामलात्मा परमेष्ठिनः स्मरन्। पञ्चत्वमाप्येन्द्रसमानवैभवः सनत्कुमारेऽजनि सोऽमराग्रणीः ॥५७॥
सर्गः श्री मघवचक्रवर्तिचरितम् ।
28282828282828282828282828
128282828282828282828282828
दीक्षा देवलोकगमनं च।
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे |
पर्वणि मघवचक्रवर्तिचरितवर्णनो नाम षष्ठः सर्ग:।।
॥१७२॥
१ निर्मलात्मा पञ्चपरमेष्ठिनः स्मरन्नित्यर्थः ।