________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ १०१
REDERERERERERERERERERERERY
सिद्धेनेव विवेकाक्षं मिथ्यात्वेन विलुम्पता । सद्भूतानां पदार्थानामविज्ञानेन सर्वतः ॥ ४० ॥ अभूच्चिरमयं कालो यामिन्येव जगत्पते ! । प्रभातं त्वधुना जज्ञे त्वया नाथेन भास्वता ॥ ४१ ॥ त्वत्पादपद्यामासाद्य लङ्घितालङ्घिता खलु । निम्नैरपि हि संसारनिम्नगा निम्नगा जनै : ॥ ४२ ॥ भवच्छासननिःश्रेणिमधिरुह्याचिरादपि । मन्येऽध्यासितमेवोच्चैर्लोकाग्रं भव्यजन्तुभिः ॥ ४३ ॥ अस्माकमप्यनाथानां चिरान्नाथोऽस्युपस्थितः । निदाघातपतप्तानां पान्थानामिव वारिदः ॥ ४४ ॥ इत्थं त्रयोदशं तीर्थकरं स्तुत्वा पुरन्दरः । गत्वा यथागतं श्यामास्वामिनीपार्श्वतोऽमुचत् ॥ ४५ ॥ शक्रः स्वामिगृहान्मेरोस्त्वन्येन्द्राः स्वं स्वमास्पदम् । प्रययुः कृतकल्याणयात्राः सांयात्रिका इव ॥ ४६ ॥ नरेन्द्रः कृतवर्माऽपि शर्मवान् विश्वशर्मदम् । ऋद्ध्या महत्या विदधे सूनोर्जन्ममहोत्सवम् ॥ ४७ ॥ गर्भस्थे जननी तस्मिन् विमला यदजायत । ततो विमल इत्याख्यां तस्य चक्रे पिता स्वयम् ॥ ४८ ॥ धात्रीभूय सुरस्त्रीभिर्लाल्यमानो जगत्पतिः । सुरैश्च सवयोभूय रम्यमाणो व्यवर्धत ॥ ४९ ॥ षष्टिधन्वोन्नतः स्वामी क्रमेण प्राप यौवनम् । अष्टोत्तरसहस्रेण लक्षणानां च लक्षितः ॥ ५० ॥ स पित्रोरुपरोधेन भववैराग्यभागपि । राज्ञां पुत्रीरुपायंस्त भोग्यकर्मरुगौषधीः ॥ ५१ ॥ कौमारे पञ्चदशाब्दलक्षीमुल्लङ्घ्य मेदिनीम् । अंशात् पितृगिरा मान्या पित्राज्ञा ह्यर्हतामपि ॥ ५२ ॥ गतेषु वर्षलक्षेषु त्रिशत्यवनिपालने । भवाब्धेस्तरणे तरीं दीक्षावेलामचिन्तयत् ॥ ५३ ॥
१ पद्या - वर्त्म । २ समुद्रयायिनः, नौवणिजः ३ समानवयोयुता भूत्वा । ४ भोग्यं कर्मैव रूग् तस्मिन् औषधरूपाः । ५ शासनं चकार ।
REREREREREDERERERERERERYRYI
चतुर्थं पर्व तृतीयः सर्गः
श्रीविमलनाथजिनचरितम् |
नामकरणम् विवाहो
राज्यपालनं च।
॥ १०१ ॥