________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ १०० ॥
'REREDERE DE RE
REDERERERY:
शुद्धद्वादश्यां राधस्योत्तरभद्रपदासु भे । सोऽथ च्युत्वा ततः श्यामादेवीकुक्षाववातरत् ॥ २६ ॥ मुखे प्रविशतस्तीर्थकरजन्माभिसूचकान् । श्यामादेवी महास्वप्नांश्चतुर्दश ददर्श सा ॥ २७ ॥ पूर्णे काले माघशुक्लतृतीयायां निशाकरे । उत्तरभद्रपदास्थे स्वोच्चस्थेषु ग्रहेषु च ॥ २८ ॥ सुतं सूकरलक्ष्माणं तपनीयोपमद्युतिम् । ज्ञानत्रयधरं श्यामास्वामिनी सुषुवे सुखम् ॥ २९ ॥ स्वामिनः स्वामिमातुश्च सूतिकर्मैत्य सर्वतः । षट्पञ्चाशद्दिकुमार्यश्चेटिका इव चक्रिरे ॥ ३० ॥ एत्य शक्रो मेरुशैले नीत्वाऽङ्के न्यस्य च प्रभुम् । अतिपाण्डुकम्बलास्थे सिंहासन उपाविशत् ॥ ३१ ॥ त्रयोदशं जिनेन्द्रं तं सुरेन्द्रा अच्युतादयः । त्रिषष्टिः स्नपयामासुः क्रमशस्तीर्थवारिभिः ॥ ३२ ॥ ईशानाङ्के निवेश्येशं शक्रोऽप्यस्त्रपयज्जलैः । वृषशृङ्गोत्थितैः शैलशृङ्गोत्थैरिव निर्झरैः ॥ ३३ ॥ स्वामिनं देवदूष्येण वाससा वासवः स्वयम् । आर्द्रं स्नानीयपानीयैर्माणिक्यवदमार्जयत् ॥ ३४ ॥ गोशीर्षचन्दनैः श्यामानन्दनं नन्दनाहृतैः । स व्यलिम्पद् वपुर्लग्नदेवदूष्यभ्रमप्रदैः ॥ ३५ ॥ विचित्रैर्दामभिर्दिव्यैर्वस्त्रालङ्करणैरपि । अर्चित्वाऽऽरात्रिकं कृत्वा प्रभुं शक्रोऽस्तवीदिति ॥ ३६ ॥ मोहेन तिमिरेणेव परितोऽपि प्रसारिणा । नितान्तकोपनैर्नक्तंञ्चरैरिव जटाधरैः ॥ ३७ ॥ बुद्धिसर्वस्वहरणैश्चार्वाकैस्तस्करैरिव । अत्यन्तमायानिपुणैर्गोमायुभिरिव द्विजैः ॥ ३८ ॥ भ्रमद्भिर्मण्डलीभूय कौलाचार्यैर्वृकैरिव । उलूकैरिव पाखण्डैर्वल्गद्भिरपरैरपि ॥ ३९ ॥
१ तपनीयम् - सुवर्णम् । २ लग्नम् धृतम् लागेलुं इति भाषायाम् । ३ शृगालै: ।
FRERERERERERERERERERERERERE
चतुर्थं पर्व तृतीय: सर्गः
श्रीविमलनाथजिनचरितम् ।
विमलनाथजिनजन्म ।
॥ १०० ॥