________________
त्रिषष्टि
शलाका
पुरुषचरिते
1192 11
DEREREREREREDERERERERERERY
ते त्रिः प्रदक्षिणीकृत्य प्रणम्य च जगद्गुरुम् । इति विज्ञपयामासुः स्वामिन् ! तीर्थं प्रवर्तय ॥ १०८ ॥ एवं विज्ञप्य यातेषु तेषु कल्पं निजं पुनः । अदत्त वार्षिकं दानमवदानपरः प्रभुः ॥ १०९ ॥ तद्दानान्तेऽभ्येत्य दीक्षाभिषेकोत्सवमीशितुः । इन्द्राश्चक्रुः प्रावृडन्त इन्द्रोत्सवमिव प्रजाः ॥ ११० ॥ ततश्च पृथिवीं नाम सुरा- सुर-नरैः कृताम् । समारुरोह शिबिकां सिंहासनविभूषिताम् ॥ १११ ॥ तत्राङ्घ्रिपीठन्यस्ताङ्घ्रिर्मणिसिंहासनस्थितः । राजहंस इव स्वर्णाम्भोरुहोत्सङ्गमास्थितः ॥ ११२ ॥ कैश्चिदग्रस्थितैः स्वस्वशस्त्रौलालनलालसैः । दिव्यच्छत्रकरैः कैश्चित् कैश्चिच्चामरधारिभिः ॥ ११३ ॥ तालवृन्तधरैः कैश्चित् कैश्चिच्चामरधारिभिः । पुष्पदामधरैः कैश्चिद् वासवैः परिवारितः ॥ ११४ ॥ अमरैरसुरैर्मत्यैः सेव्यमानो जगत्पतिः । विहारगृहमित्युच्चैर्ययावथ वनोत्तमम् ॥ ११५ ॥
॥ चतुर्भिः कलापकम् ॥
चूताङ्कुरास्वादहृष्टैः परपुष्टैः कलस्वनैः । प्रस्तूयमानस्तवन इव भक्तिप्रकर्षतः ॥ ११६ ॥ अनिलान्दोलनस्त्रस्तकुसुमस्तबकच्छलात् । प्रदीयमानार्घ इव प्रत्यग्राशोकपादपैः ॥ ११७ ॥ उच्छलच्चम्पकाशोकमकरन्दापदेशतः । पादार्चायै ढौक्यमानपाद्योदक इवामरैः ॥ ११८ ॥ अमन्दलवलीपुष्पमधुपानोन्मदिष्णुभिः । रोलम्बललनावृन्दैः कृतोलूलुरिवोच्चकैः ॥ ११९ ॥
१ अवदानम्-पराक्रमः । २ उत्सङ्गः क्रोडः । ३ उल्लालनम् भाषायाम्- 'उलालबुं' । ४ कोकिलैः । ५ प्रत्यग्र नवीनः । ६ अपदेशतः मिषतः । ७ रोलम्बो भ्रमरः । ८ उलूलु मङ्गलध्वनिः ।
REDERERERERERERERERERERERY!
चतुर्थं पर्व द्वितीय: सर्गः श्रीवासुपूज्य - चरितम् ।
दीक्षा ।
1192 11