________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। ७७ ।।
FREDERERERERERERERERERERERY
अवान्तरोत्सवमिमं किं तु वाञ्छामि तवकम् । अप्यस्मत्पूर्वपुरुषैर्मुमुक्षुभिरनुष्ठितम् ॥ ९३ ॥ तथा हीक्ष्वाकुवंशादिर्भगवानृषभध्वजः । सुमङ्गलां सुनन्दां चोपयेमे पितृशासनात् ॥ ९४ ॥ पितुरेवाज्ञया राज्यं ससर्जापालयच्च सः । भोगांश्च भुक्त्वा समये प्रव्रज्यां समुपाददे ॥ ९५ ॥ पश्चादण्यात्तया मोक्षं दीक्षया प्राप स प्रभुः । मोक्षो ग्राम इवासन्नः सुप्रापस्त्वादृशां खलु ॥ ९६ ॥ अन्येऽप्यजितनाथाद्याः श्रेयांसान्ताः पितुर्गिरा । उदूहुंरूहुंश्च महीं ततो मोक्षमसाधयन् ॥ ९७ ॥ भवानपि करोत्वेवं पूर्वाननुकरोतु च। विवाह - राज्यवहन - दीक्षा - निर्वाणसाधनैः ॥ ९८ ॥ वासुपूज्यकुमारोऽपि सप्रश्रयमभाषत । तात ! ज्ञाताऽस्मि पूर्वेषां सर्वेषां चरितान्यहम् ॥ ९९ ॥ किं त्वत्र संसारपथे न हि केनापि कस्यचित् । स्वकुलेऽन्यकुले वाऽपि कर्मसादृश्मीक्ष्यते ॥ १०० ॥ सावशेषाणि कर्माणि तेषां भोगफलानि हि । तत् तानि चिच्छिदुर्भोगैस्ते ज्ञानत्रयधारिणः ॥ १०१ ॥ न मे भोगफलं कर्म किञ्चिदप्यवशिष्यते । मोक्षप्रत्यूहभूतं तन्नैवमादेष्टुमर्हथ ॥ १०२ ॥ मल्लिनेंमिः पार्श्व इति भाविनोऽपि त्रयो जिना: । अकृतोद्वाहसाम्राज्याः प्रव्रजिष्यन्ति मुक्तये ॥ १०३ ॥ श्रीवीरश्चरमश्चार्हन्नीषद्धोग्येन कर्मणा । कृतोद्वाहोऽकृतराज्यः प्रव्रजिष्यति सेत्स्यति ॥ १०४ ॥ ततश्च कर्मवैचित्र्यात् पन्था नैकोऽर्हतामापि । विचार्येत्यनुजानीथ मा भूत प्रेमकातराः ॥ १०५ ॥ एवं प्रबोध्य पितरौ वर्षलक्षेषु जन्मतः । गतेष्वष्टादशस्वीशो जज्ञे दीक्षार्थमुत्सुकः ॥ १०६ ॥ ज्ञात्वा चासनकम्पेन स्वामिदीक्षाक्षणं क्षणात् । ब्रह्मलोकादुपाजग्मुस्तत्र लौकान्तिकामराः ॥ १०७ ॥ १ तव इदम् । २ परिणीताः । ३ ऊढाः- धृता इत्यर्थः । ४ सस्नेहम् । ५ उद्वाहः विवाहः । ६ सिद्धो भविष्यति ।
EDERERERERERERERERERERERERY
चतुर्थं पर्व द्वितीय: सर्गः
श्रीवासुपूज्य
चरितम् ।
दीक्षा ।
11 99 11