________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व द्वितीयः सर्गः अजितसगरचरितम्।
॥४४॥
AYRYNYRYYRYYYYNYRYNYXX
शक्रसिंहासनस्योच्चैस्तस्य पश्चिमतोऽभवन् । सप्तानामप्यनीकाधिपतीनामासनानि तु ॥३०५ ॥ शक्रासनस्य प्रत्येकं, ककुप्सु चतसृष्वपि । चतुरशीत्यात्मरक्षसहम्या आसनानि तु ॥ ३०६ ॥ ईदृग् विमानं शक्राज्ञासमकालमजायत । निष्पद्यन्ते समनसां, मनसा हीष्टसिद्धयः ॥३०७॥ सङ्क्रन्दनो विचक्रे च, जिनाभिगमनोत्सुकः । विचित्रभूषणधरं, रूपमुत्तरवैक्रियम् ॥३०८ ॥ लावण्यामृतवल्लीभिर्महिषीभिः सहाऽष्टभिः । नाट्यानीकेन गन्धर्वानीकेन च महीयसा ॥३०९ ॥ हृष्टः प्रदक्षिणीकृत्य, तद् विमानवरं हरिः । अध्यारुरोह पूर्वेण, रत्नसोपानवर्त्मना ॥३१० ॥॥युग्मम् ॥ रत्नसिंहासने पूर्वाभिमुखस्तत्र वासवः । आसाञ्चक्रे शैलचूलाशिलायामिव केसरी ॥३११ ॥ स्वान्यासनान्यलञ्चक्रुर्महिष्योऽपि बिडौजसः । यथाक्रमं कमलिनीदलानीव मरालिकाः ॥ ३१२ ॥ चतुरशीतिः सहस्राः, सामानिकदिवौकसाम् । अध्यारोहन् विमानं तदुदक्सोपानवर्त्मना ॥३१३ ॥ तत्राऽऽसाञ्चक्रिरे स्वेषु, स्वेषु भद्रासनेषु ते । रूपधेयान्तराणीवाऽप्रतिरूपाणि वज्रिणः ॥३१४ ॥ अन्येऽपि देवा देव्यश्चाऽपाच्यसोपानवर्त्मना । तद् विमानं समारोहन्, निषेदुश्च यथासनम् ॥३१५ ॥ हरेः सिंहासनस्थस्य, पुरोऽभूदष्टमङ्गली । पत्नीभिरष्टाभिरिवैकैकमङ्गलकल्पनात् ॥३१६ ॥ तदनु च्छत्र-भृङ्गार-पूर्णकुम्भादयोऽभवन् । ते हि स्वाराज्यचिह्नानि, च्छायावत् सहचारिणः ॥३१७॥ सहस्रयोजनोत्सेधस्तदग्रेऽभून्महाध्वजः । युतो लघुध्वजशतैः, पल्लवैरिव पादपः ॥३१८ ॥ तदने चाऽभवन् पञ्चाऽनीकाधिपतयो हरेः । आभियोगिकदेवाश्च, स्वाधिकाराप्रमादिनः ॥३१९ ॥
१ इन्द्रः । २ दक्षिणसोपानमार्गेण । ३ उन्नतः ।
1282828282828282828282828286
सौधर्मेन्द्रा गमनम्।
॥४४॥