________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व द्वितीयः सर्गः अजितसगरचरितम् ।
॥४३॥
282828282828282828282828288
आलिङ्गिपुष्करमुखादर्शदीपकमल्लिवत् । मध्यभागः समतलस्तस्य मासृण्यभागभूत् ॥ २९० ॥ सस्पर्शः सुप्रभैः पञ्चवर्णैश्चित्रैर्विचित्रितः । केकिपत्रैरिवाऽऽस्तीर्णो, भूमिभागो रराज सः ॥ २९१ ॥ अभवन्मध्यतस्तस्यैकः प्रेक्षागृहमण्डपः । क्रीडावेश्म श्रियामन्तर्नगर्या राजवेश्मवत् ॥ २९२ ॥ मध्य च तस्य विष्कम्भायामाभ्यामष्टयोजना । चतुर्योजनबाहल्या, बभूव मणिपीठिका ॥२९३ ॥ तस्या उपर्येकमासीद्, रत्नसिंहासनोत्तमम् । महन्महत्यङ्गुलीये, माणिक्यमिव पावनम् ॥ २९४ ॥ तस्योपरिष्टादुल्लोचो, राजतोऽराजतोज्ज्वलः । स्त्यानीभूतशरज्ज्योत्स्नाप्रसरभ्रमदायकः ॥ २९५ ॥ तन्मध्ये लम्बमानोऽभूदेको वज्रमयोऽङ्कशः । तत्र प्रलम्ब्यभूदेकं, मुक्तादामैककुम्भिकम् ॥२९६ ॥ तस्याऽनुजन्मान इव, ककुप्सु चतसृष्वपि । अर्धकुम्भप्रमैर्मुक्ताफलैरिस्रजोऽभवन् ॥ २९७ ॥ मन्दमान्दोल्यमानास्ते, वातेन मृदुनाऽद्युतन् । शुनासीरश्रियो लीलादोलालक्ष्मीमलिम्लुचाः ॥२९८ ॥ महतस्तस्य शाक्रस्य, रत्नसिंहासनस्य तु । पूर्वोदीच्यामुदीच्यां चाऽपरोदीच्यां तथा दिशि ॥ २९९ ॥ चतुरशीतिसहस्रसामानिकदिवौकसाम् । भद्रासनानि तावन्ति, रत्नरम्याणि जज्ञिरे ॥३०० ॥ तत्राऽष्टानामिन्द्राणीनां, प्राच्यामष्टाऽऽसनानि च । कमलाकेलिमाणिक्यवेदिकासन्निभान्यभान् ॥३०१॥ दिशि दक्षिणपूर्वस्यां, तत्राऽभ्यन्तरपर्षदः । देवद्वादशसहम्या, अभवन्नासनानि तु ॥ ३०२ ॥ दक्षिणस्यां दिश्यभूवन्, मध्यायाः शक्रपर्षदः । चतुर्दशामरसहायासनानि निरन्तरम् ॥३०३॥ दिशि याम्यप्रतीच्यां च, बभूवुर्बाह्यपर्षदः । षोडशानां सहस्राणामासनानि दिवौकसाम् ॥३०४॥ १ मृदुताभाक् । २ मयूरपिच्छैः । ३ महत्यां मुद्रिकायाम् । ४ घनीभूतः ।
282828282828282828282828284
सौधर्मेन्द्रागमनम्।
॥४३॥