________________
त्रिषष्टि
शलाकापुरुषचरिते
द्वितीयं पर्व द्वितीयः सर्गः अजितसगरचरितम्।
॥३५॥
282828282828282828282828282
ततो महाविमानैः स्वैर्योतीषीवाऽमराचलम् । तास्त्रिः प्रदक्षिणीचक्रुस्तीर्थकृत्सूतिकागृहम् ॥ १७५ ॥ चतुरङ्गलमात्रेणाऽसंस्पृशन्त्यो महीतलम् । अस्थापयन् विमानानि, पूर्वोदीच्यां ततश्च ताः ॥ १७६ ॥ प्रविश्य सूतिकागारं, जिनेन्द्रं जिनमातरम् । त्रिस्ताः प्रदक्षिणीकृत्य, बद्धाञ्जल्येवमूचिरे ॥ १७७॥ नमस्तुभ्यं जगन्मातः!, कुक्षिणा रत्नधारिणि! । सर्वनारीसारभूते!, जगद्दीपप्रदायिनि! ॥१७८ ॥ त्वं धन्याऽसि पवित्राऽसि, त्वं चाऽसि जगदुत्तमा । मनुष्यलोके चैतस्मिन्, जन्मेदं सफलं तव ॥१७९ ॥ यत् त्वं पुरुषरत्नस्य, कारुण्यक्षीरनीरधेः । त्रैलोक्यवन्दनीयस्य, स्वामिनो धर्मचक्रिणः ॥१८० ॥ जगद्गुरोर्जगद्वन्धोविश्वानुग्रहकारिणः । द्वितीयस्याऽवसर्पिण्यां, जिनेन्द्रस्य जनन्यसि ॥१८१॥॥युग्मम् ॥ मातर्वयमधोलोकवास्तव्या दिक्कुमारिकाः । कर्तुं तीर्थकृतो जन्ममहिमानमिहाऽऽगताः ॥१८२॥ तद् युष्माभिर्न भेतव्यमित्युदीर्य प्रणम्य च । पूर्वोत्तरस्यां ककुभि तत्र ता व्यपचक्रमुः ॥१८३ ॥ वैक्रियेण समुद्घातेनाऽथ ताः शक्तिसम्पदा । वातं संवर्तकं नाम, क्षणेनाऽपि विचक्रिरे ॥१८४ ॥ शिवेन मदशीतेन, तेन तिर्यक्प्रवायिना । सर्वर्तुकुसुमाभोगगन्धसर्वस्ववाहिना ॥१८५ ॥ मरुता सूतिकागारं, परितो योजनावधि । अपनीय तृणाधुच्चैश्चोक्षीचक्रुः क्षमातलम् ॥ १८६ ॥ भगवद्भगवन्मात्रोरदवीयसि तास्ततः । मङ्गल्यगीतं गायन्त्यो, हर्षवत्योऽवतस्थिरे ॥ १८७ ॥ अथोर्ध्वरुचकसंस्था, नन्दनोद्यानकूटगाः । दिव्यालङ्कारधारिण्य, इत्यष्टौ दिक्कुमारिकाः ॥१८८ ॥ मेघरा मेघवती, सुमेघा मेघमालिनी । सुवत्सा वत्समित्रा च, वारिषेणा बलाहका ॥१८९ ॥
१ मेरुम् । २ अनतिदूरे।
28888888888888888888888888
दिक्क्मारिकाकृतो जिनजन्मोत्सवः।
॥३५॥