________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व द्वितीयः
सर्गः अजितसगरचरितम् ।
॥३४॥
28282828282828282828282828
आदेशेन समं तासां, ते देवा आभियोगिकाः । विकृत्य दर्शयामासुर्विमानान्युरुशक्तयः ॥ १६१ ॥
॥सप्तभिः कुलकम् ॥ अथाऽधोलोकवास्तव्यास्तास्वष्टौ दिक्कुमारिकाः । देवदूष्यनिवसनाः, पुष्पालङ्कतकुन्तलाः ॥१६२ ॥ भोगराभोगवती, सुभोगा भोगमालिनी । तोयधारा विचित्रा च, पुष्पमालाऽप्यनिन्दिता ॥१६३ ॥ प्रत्येकं च सामानिकीचत्वारिंशच्छतावृताः । महत्तराभिः प्रत्येकं, तथा चतसृभिर्युताः ॥१६४ ॥ प्रत्येकं च महानीकैः, सप्तभिः परिवारिताः । अनीकाधिपतिभिश्च, प्रत्येकमपि सप्तभिः ॥१६५॥ आत्मरक्षीसहस्रैश्चैकैका षोडशभिर्युताः । अन्यैश्च व्यन्तरैर्देवैर्देवीभिश्च महद्धिभिः ॥१६६ ॥ विमानानि समारुह्य, गीतनृत्तमनोहरम् । प्रति पूर्वोत्तरदिशं, सोत्कण्ठमुपचक्रमुः ॥१६७ ॥ अथ कृत्वा समुद्घातं, वैक्रियं ताः क्षणादपि । योजनान्यपसङ्ख्यानि, यावद् दण्डं विचक्रिरे ॥ १६८ ॥ रत्ने-वैडूर्य-वज्राणां, लोहिताक्षाङ्कयोरपि । अञ्जनाञ्जनपुलक-पुलकानां तथैव च ॥१६९ ॥ ज्योतीरस-सौगन्धिक-रिष्टानां स्फटिकाश्मनाम् । जातरूपहंसगर्भरत्नानामपि सर्वतः ॥१७० ॥ तथा मसारगल्लानां, मणीनां स्थूलपुद्गलान् । परितः शातयामासुर्जगृहुश्चाऽणुपुद्गलान् ॥१७१ ॥ ततश्च चक्रिरे स्वं स्वं, रूपमुत्तरवैक्रियम् । देवतानां जन्मसिद्धाः, खलु वैक्रियलब्धयः ॥ १७२ ॥ उत्कृष्टया त्वरितया, चलया चण्डयाऽपि च । सिंहोद्धताभ्यां पतनाच्छेकाभ्यामथ दिव्यया ॥ १७३ ॥ देवगत्या तथा सर्वऋद्धा सर्वबलेन च । ययुः पुर्यामयोध्यायां, जितशत्रुनुपौकसि ॥१७४ ॥
28282828282828282828282828
दिक्कुमारिकाकुतो जिनजन्मोत्सवः ।
॥३४॥
१एशानीम्। २ असङ्ख्यातानि।