________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ २८ ॥
ERERERERERER
ERERERERERER
नृदेवं देववन्नत्वा, पञ्चाङ्गस्पृष्टभूतलः । निषसाद यथास्थानं, सुमित्रविजयस्ततः ॥ ७२ ॥ क्षणं स्थित्वा पुनर्नत्वा, भक्तितो वसुधापतिम् । एवं विज्ञपयामास, कुमारो रचिताञ्जलिः ॥ ७३ ॥ युष्मद्वेध्वा वैजयन्त्या, प्रहरेऽद्य निशोऽन्तिमे । निरीक्षाञ्चक्रिरे स्वप्नेऽमी मुखाब्जप्रवेशिनः ॥ ७४ ॥ तत्राऽऽदौ गज ऊर्जस्वी, गर्जिनिर्जितदिग्गजः । नदन्नुत्तुङ्गककुदः, ककुद्मान् विशदाकृतिः ॥ ७५ ॥ उत्केसरततिर्व्यात्ताननः पञ्चाननोऽपि च । क्रियमाणाभिषेका श्रीर्हस्तिभ्यां पार्श्वयोर्द्वयोः ॥ ७६ ॥ पञ्चवर्णं च सुमनोदामैन्द्रमिव कार्मुकम् । सुधाकुण्डमिवाऽऽपूर्णं, शशी सम्पूर्णमण्डलः ॥ ७७ ॥ विश्वस्याप्यात इव, प्रतापस्तपनस्ततः । दिव्यरत्नमयः प्रेङ्खत्पताकश्च महाध्वजः ॥ ७८ ॥ पूर्णकुम्भो नवश्वेताम्भोरुहच्छादिताननः । सहस्त्राक्षमिव स्मेरैः, पद्मः पद्मसरोऽपि च ॥ ७९ ॥ आपिप्लावयिषुरिव, द्यामप्यूर्मिभिरम्बुधिः । सामानिकविमानाभं, विमानं च महर्द्धिकम् ॥ ८० ॥ सारं रत्नाचलस्येव, रत्नपुञ्जः स्फुरत्प्रभः । धूमध्वजश्च निर्धूमः, शिखापल्लविताम्बरः ॥ ८१ ॥ एते ददृशिरे स्वप्नाः, फलमेषां तु तत्त्वतः । देव एव हि जानाति, फलभाग् देव एव च ॥ ८२ ॥ राजाऽप्युवाचाऽमी स्वप्ना, देव्या विजययाऽपि हि । अद्यैव यामे यामिन्यास्तुर्ये ददृशिरे स्फुटाः ॥ ८३ ॥ यद्यप्येते महास्वप्नाः, सामान्येन महाफलाः । आनन्दकारिणो राकानिशाकरकरा इव ॥ ८४॥ तथाऽपि तज्ज्ञाः प्रष्टव्याः, फलं ज्ञातुं विशेषतः । अमीषां कुमुदानन्दकृत्त्वं शशिरुचामिव ॥ ८५ ॥ आमित्युक्ते कुमारेण राज्ञा सादरमीरितः । आजुहाव प्रतीहारः, स्वप्नशास्त्रविचक्षणान् ॥ ८६ ॥ १ मम पल्या । २ वृषभः । ३ प्लावयितुमिच्छुः । ४ प्रेरितः ।
FRERERERERERERERERERERERERER
द्वितीयं पर्व द्वितीय: सर्गः अजित
सगर
चरितम् ।
अजितप्रभोर्गर्भावतरणं,
विजयादव्याः स्वप्नदर्शनं च ।
॥ २८ ॥