________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ २७ ॥
REDERERE
X X X X X X X
नवीकुरु पुरीमेतां, नूतनैस्तद्गृहादिभिः । मधुमास इवोद्यानं, प्रत्यग्रैः पल्लवादिभिः ॥ ५७ ॥ रत्नैः स्वर्णैर्धनैर्धान्यैर्वासोभिश्च समन्ततः । पूरयेमां पुरीं पृथ्वीं, जलैरिव बलाहकः ॥ ५८ ॥ इत्युक्त्वा सोऽपरे ऽपीन्द्रा, मध्येनन्दीश्वरं ततः । गत्वा चक्रुः शाश्वतार्हत्प्रतिमाष्टाह्लिकोत्सवम् ॥ ५९ ॥ ततो निजनिजं स्थानं, ययुः सर्वेऽपि वासवाः । यक्षोऽपि कृत्वेन्द्रादिष्टं, तत्पुर्याः स्वपुरीं ययौ ॥ ६० ॥ स्वर्णराशिभिरुत्तुङ्गैः, शृङ्गैर्मेरुगिरेरिव । कलधौतोच्चयैरुच्चैर्वैताढ्यशिखरैरिव ॥ ६१ ॥ रत्नाकरस्य सर्वस्वेनेव रत्नोत्करैरपि । धान्यैश्च सप्तदशभिर्बीजैरिव जगन्मुदः ॥ ६२ ॥ वासोभिः कल्पवृक्षेभ्यः, सर्वतोऽप्याहृतैरिव । ज्योतिष्काणामिव रथैर्वाहनैश्चाऽतिसुन्दरैः ॥ ६३ ॥ नवीकृता प्रतिगृहं प्रत्यापणचतुष्पथम् । अलकापतिना पूर्णा, साऽलकेव पुरी बभौ ॥ ६४ ॥ ॥ चतुर्भिः कलापकम् ॥ सुमित्रस्याऽपि गृहिणी, स्वप्नांस्तानेव तन्निशि । वैजयन्ती निरैक्षिष्ट, यशोमत्यपराभिधा ॥ ६५ ॥ ततस्तद्रजनीशेषं, कुमुदिन्याविवोन्मुदौ । विजया - वैजयन्त्यौ ते, जाग्रत्यावेव निन्यतुः ॥ ६६ ॥ विजया स्वामिनी प्रातस्तान् स्वप्नान् जितशत्रवे । आचचक्षे वैजयन्ती, सुमित्रविजयाय तु ॥ ६७ ॥ तान् स्वप्नान् विजयादेव्या, विचार्य मनसर्जुना । आख्याति स्म स्वप्नफलमेवं वसुमतीपतिः ॥ ६८ ॥ एभिः स्वप्नैर्महादेवि !, यशोवृद्धिर्गुणैरिव । विशेषज्ञानसम्पत्तिरागमाभ्यसनैरिव ॥ ६९ ॥ जगदुद्योतनमिव, प्रद्योतनमरीचिभिः । तत्र त्रिजगदुत्कृष्टो, नूनं सूनुर्भविष्यति ॥ ७० ॥ एवं स्वप्नफलं राज्ञो, यथाप्रज्ञं विविञ्चतः । सुमित्रविजयोऽभ्यागात्, प्रतीहारीनिवेदितः ॥ ७१ ॥ १ रूप्यराशिभिः । २ सूर्यकिरणैः ।
CREDEREREREDERERERERERERDERY
द्वितीयं पर्व द्वितीय: सर्गः अजित
सगर
चरितम् ।
अजितप्रभोर्गर्भावतरणं,
विजयादेव्याः स्वप्नदर्शनं च
।। २७ ।।