________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व द्वितीयः सर्गः अजितसगरचरितम्।
॥२५॥
282828282828282828282828286
ध्वस्तान्धकारपटलः, प्रसरद्भिर्मरीचिभिः । रजन्यामपि तन्वानो, दिनं दिनमणिस्ततः ॥२८॥ शाखा कल्पद्रुमस्येव, शृङ्ग रत्नगिरेरिव । अभ्रंलिहपताकाङ्कस्तथा रत्नमयध्वजः ॥ २९ ॥ विकस्वरनवश्वेतसरोजपिहिताननः । मङ्गलस्यैकनिलयः, पूर्णकुम्भोऽतिशोभनः ॥३०॥ पङ्कजैरङ्कितो विश्वक्, श्रीदेव्या विष्टरैरिव । पद्माकरोऽथ स्वच्छाम्भोलहरीभिर्मनोहरः ॥३१॥ उपर्युपरि कल्लोलं, कल्लोलैरम्बुधिस्तथा । नभःस्थितं चन्द्रमसमालिङ्गितुमना इव ॥३२॥ अनुत्तरविमानेभ्य, इवैक्तमदागतम् । विचित्ररत्नरचितं, विमानप्रवरं तथा ॥३३॥ स्वरत्नसर्वस्वमिव, प्रसूतं रत्नगर्भया । अत्यद्भुतप्रभापुञ्जो, रत्नपुञ्जस्तथोच्चकैः ॥ ३४ ॥ तेजस्विनामशेषाणां, त्रैलोक्योदरवर्तिनाम् । तेजःपुञ्ज इवैकत्राऽऽहतो निर्धूमपावकः ॥ ३५ ॥ एते च विजयादेव्या, परिपाट्याऽनया निजे । प्रविशन्तो मुखाम्भोजेऽदृश्यन्त भ्रमरा इव ॥३६॥ सिंहासनप्रकम्पोऽभूत्, तदानीं च दिवस्पतेः । चक्षुःसहस्रादधिकं, चक्षुः प्रायुक्त सोऽवधिम् ॥ ३७ ॥ अवधिज्ञानतोऽज्ञासीत्, तीर्थकृद्गर्भसम्भवम् । रोमाञ्जितवपुश्चैवं, चिन्तयामास वासवः ॥ ३८ ॥ असाविदानी विजयादनुत्तरविमानतः । अच्योष्ट जगदानन्दनिदानं परमेश्वरः ॥३९॥ ततश्च जम्बूद्वीपाभिधाने द्वीपवरेऽधुना । याम्यभारतवर्षार्धमध्यखण्डस्य मध्यतः ॥ ४० ॥ विनीतायां महापुर्यां, जितशत्रोर्महीपतेः । भार्याया विजयादेव्याः, कुक्षौ समवतीर्णवान् ॥४१॥ एतस्यामवसर्पिण्यां, करुणारससागरः । भगवांस्तीर्थनाथोऽयं, द्वैतीयीको भविष्यति ॥४२॥ १ आसनैरिव । २ इन्द्रस्य। ३ दक्षिणम् ।
282828282828282828282828286
अजितप्रभोर्ग
र्भावतरणं, विजयादेव्याः स्वप्नदर्शनं च
॥२५॥