________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ २४ ॥
CREDEREREREREREREDEREREDERE
सधर्मचारिणी चाऽऽसीज्जितशत्रुमहीपतेः । श्रीमती विजयादेवी, देवीव भुवमागता ॥ १३ ॥ पाणिभ्यां चरणाभ्यां च नेत्राभ्यां च मुखेन च । चकासामास विकचाम्भोजखण्डमयीव सा ॥ १४ ॥ पृथिव्या भूपणं साऽभूत्, तस्याः शीलं तु भूषणम् । अन्वभूषणभारस्तु, प्रक्रियामात्रहेतुकः ॥ १५ ॥ कलाकलापकलनाद्, विश्वशोभानिबन्धनात् । देवी सरस्वती वा साऽवतीर्णा कमलाऽथवा ॥ १६ ॥ स नरेषूत्तमो राजा सा नारीषु शिरोमणिः । सदृग्योगस्तयोरासीद्, गङ्गासागरयोरिव ॥ १७ ॥ इतश्च विजयाच्च्युत्वा, जीवो विमलभूभुजः । तस्याः श्रीविजयादेव्याः, कुक्षौ रत्नखनाविव ॥ १८ ॥ राधेशुक्लत्रयोदश्यां, रोहिणीधिष्ण्यगे विधौ । ज्ञानत्रयधरः पुत्ररत्नत्वेनोदपद्यत ॥ १९॥ प्रभावात् स्वामिनस्तस्य, गर्भवासमुपेयुषः । क्षणं सुखं समुत्पेदे, नारकप्राणिनामपि ॥ २० ॥ तस्या एव हि यामिन्यास्तुर्ये यामेऽतिपावने । देव्या विजयया स्वप्ना, अदृश्यन्त चतुर्दश ॥ २१ ॥ आदौ तत्र मदामोदभ्रमद्भ्रमरमण्डलः । गर्जितेनाऽतिपर्जन्यो, गजः सुरगजोपमः ॥ २२ ॥ उत्तुङ्गशृङ्गरुचिरः, शरदम्भोदपाण्डुरः । रम्यपादोऽथ वृषभः, कैलास इव जङ्गमः ॥ २३ ॥ नखैरिन्दुकलावत्रैरतिकुङ्कुमकेसरैः । केसरैश्च भ्राजमानः, पञ्चाननयुवाऽपि च ॥ २४ ॥ उदस्तपूर्णकुम्भाभ्यां कुम्भिभ्यां पार्श्वयोर्द्वयोः । क्रियमाणाभिषेकाच, कमला कमलासना ॥ २५ ॥ विकासिकुसुमामोदाधिवासितदिगन्तरम् । दिवो ग्रैवेयकमिव, पुष्पदाम दिवि स्थितम् ॥ २६ ॥ सम्पूर्णमण्डलत्वेनाऽकाण्डे राकां प्रदर्शयन् । ज्योत्स्नातरङ्गीतव्योमा, शीतधामा ततः परम् ॥ २७ ॥ १ पत्नी । २ वैशाखः । ३ रोहिणीनक्षत्रस्थिते । ४ रात्रेः । ५ सिंहः । ६ हस्तिभ्याम् । ७ पूर्णिमाम् ।
EDEDEDEREREREREDEREREDERERY,
द्वितीयं पर्व द्वितीय: सर्गः
अजित
सगर
चरितम् ।
अजितप्रभोर्गभवितरणं,
विजयादव्याः स्वप्नदर्शनं च ।
॥ २४ ॥