________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व प्रथमः
सर्गः
अजितसगरचरितम् ।
॥८॥
282828282828282828282828288
दन्तांशुज्योत्स्नया व्योमतलं धवलयन्नथ । एवामाचार्यचन्द्रोऽपि, सप्रसादमभाषत ॥ ९७ ॥ संसारे धीमतां सर्वमपि वैराग्यकारणम् । विशेषतस्तु वैराग्यहेतुः कस्यापि कश्चन ॥९८ ॥ अहं हि गृहवासस्थः, पुरा दिग्जयहेतवे । हस्त्यश्व-रथ-पादातचमूभिः सहितोऽचलम् ॥ ९९ ॥ मार्गान्तराले सततस्निग्धच्छायामनोरमम् । जगभ्रमणखिन्नाया, विश्रामौक इव श्रियः ॥१०॥ नृत्यन्तमिव कङ्केल्लिलोलपल्लवपाणिभिः । हसन्तमिव विहसन्मल्लिकास्तबकोत्करैः ॥१०१॥ रोमाञ्चितमिवोदञ्चत्कदम्बकुसुमोच्चयैः । वीक्ष्यमाणमिव स्मेरकेतकीकुसुमेक्षणैः ॥१०२ ॥ सन्तापिनस्तपनांशून्, दूरादापततोऽपि हि । साल-तालद्रुमभुजैनिषेधन्तमिवोच्छ्रितैः ॥ १०३ ॥ दत्तगुप्यद्गुरुमिवाऽध्वगार्थं वटपादपैः । सज्जीकृतपाद्यमिव, सारणीभिः पदे पदे ॥१०४॥ शृङ्खलिताम्भोदमिव, महद्भिरघट्टकैः । गुञ्जन्मधुकरारावैराह्वयन्तमिवाऽध्वगान् ॥१०५॥ तमाल-ताल-हिन्ताल-चन्दनैर्मध्यवर्तिभिः । दिवाकरकरत्रासात्, तिमिरैरिव सेवितम् ॥१०६ ॥ चूत-चम्पक-पुन्नाग-नाग-केसरकेसरैः । जगत्येकातपत्रत्वं, तन्वानं सौरभश्रियः ॥१०७॥ ताम्बूली-लवली-द्राक्षावितानैरतिसन्ततैः । पान्थयूनां विना यत्नं, तन्वन्तं रतिमण्डपान् ॥१०८ ॥ भद्रशालमिवाऽऽयातं, मेरुशैलतलावनेः । भृशाभिराममाराम, तदाऽद्राक्षमहं व्रजन् ॥१०९ ॥ चिरेण दिग्जयं कृत्वा, निवृत्तः पुनरप्यहम् । आरामस्याऽन्तिके तस्य, सह चम्वा समागमम् ॥११० ॥ उत्तीर्य वाहनेभ्योऽहं, कौतुकात् सपरिच्छदः । तदन्तः प्रविशन्नन्यादृक्षमद्राक्षमग्रतः ॥ १११ ॥ १ विश्रामस्थानम्। २ उन्नतैः । ३ क्षुद्रनदीभिः । ४ सुगन्धलक्ष्म्याः ।
282828282828282828282828288
पूर्वभवचरिते | प्रथमो विमलवाहनभवः ।
॥८
॥