________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व प्रथमः सर्गः अजितसगरचरितम् ।
॥७॥
28282828282828282828282828
कांश्चिदुत्कटिकासीनान्, कांश्चित् पद्मासनस्थितान् ।गोदोहिकासनान् कांश्चित्, कांश्चिद् वीरासनासितान् ॥८२॥ वज्रासनजुषः कांश्चित्, कांश्चिद् भद्रासनस्थितान् । कांश्चिद् दण्डासनासीनान्, कांश्चिद् वल्गुलिकासनान् ॥८३॥ कांश्चित् क्रौञ्चनिषदनान्, कांश्चिद्धंसासनस्थितान् । पर्यङ्कासनिनः कांश्चित्, कांश्चिदुष्ट्रासनस्थितान् ॥८४ ॥ कांश्चित् ताासनान् कांश्चित्, कपालीकरणस्थितान् ।आम्रकुब्जासनान् कांश्चित्, कांश्चन स्वस्तिकासनान्। । दण्डपद्मासनान् कांश्चित्, कांश्चित् सोपाश्रयासनान् । कायोत्सर्गस्थितान् कांश्चित्, कांश्चन स्वस्तिकासनान्।८ । निरपेक्षान् शरीरेऽपि, नियूंढस्वप्रतिश्रवान् । विविधेषूपसर्गेषु, समरेषु भटानिव ॥८७ ॥ अन्तरङ्गानरीन् जिष्णून्, सहिष्णूंश्च परीषहान् । तपोध्यानैरलम्भूष्णून्, साधूनपि ददर्श सः ॥८८ ॥ उपेत्याऽरिन्दमाचार्यान्, ववन्दे मेदिनीपतिः । बिभ्राणः पुलकव्याजाद्, भक्तिमङ्करितामिव । ८९ ॥
सूरिवर्योऽप्युपमुखं, विन्यस्तमुखवस्त्रिकः । धर्मलाभाशिषमदात्, सर्वकल्याणमातरम् ॥९० ॥ & नरेश्वरोऽपि विनयात्, तनुं सङ्कोच्य कूर्मवत् । अवग्रहभुवं मुक्त्वा , निषसाद कृताञ्जलिः ॥ ९१ ॥
शुश्राव देशनां तस्मादाचार्यादवनीपतिः । एकतानमनास्तीर्थकरादिव पुरन्दरः ॥ ९२ ॥ राज्ञस्तद्भववैराग्यं, धर्मदेशनया तया । व्यशिष्यताऽवदातत्वं, शरदेव हिमश्रुतेः ॥ ९३ ॥ आचार्यपादान् वन्दित्वा, रचिताञ्जलिसम्पुटः । गिरा विनयगर्भिण्येत्यभ्यधाद् वसुधाधवः ॥९४॥ अनन्तदुःखरूपाणि, फलान्यनुभवन्नपि । संसारविषवृक्षस्य, जनो वैराग्यभाग न हि ॥ ९५ ॥ कथं संसारवैराग्यं, जातं भगवतामिह? । आलम्बनविभावेन, भवितव्यं हि केनचित् ॥९६ ॥
१ निर्वाहितस्वप्रतिज्ञान् । २ एकाग्रचित्तः। ३ इन्द्रः। ४ विशेषं जातम् । ५ उज्ज्वलत्वम्। ६ चन्द्रस्य ।
28282828282828282828282828
पूर्वभवचरिते प्रथमो विमलवाहनभवः।
॥७॥