________________
त्रिषष्टि
शलाका
पुरुषचरिते
1198 11
पञ्चमः सर्गः ।
श्री सुपार्श्वनाथचरितम् ।
श्री सुपार्श्वजिनेन्द्रस्य पान्तु वो देशनागिरः । उद्वेलकेवलज्ञानसमुद्रस्येव वीचयः ॥ १ ॥ चरितं श्रीसुपार्श्वस्य वक्ष्येऽहं सप्तमार्हतः । कुबोधध्वान्तसुदिनमशेषाणां शरीरिणाम् ॥ २ ॥ धातकीखण्डद्वीपस्य प्राग्विदेहविशेषके । विजये रमणीयेऽस्ति नाम्ना क्षेमपुरी पुरी ॥ ३ ॥ तत्रासीज्जगदानन्दी नन्दिषेणो नरेश्वरः । दिनेश्वर इव श्रीमांस्तेजसामेकमास्पदम् ॥ ४॥ अशेषराज्यव्यापारे जागरुकस्य सर्वदा । तस्य प्रधान्यभूद् धर्मो दोर्दण्ड इव दक्षिणः ।। ५ । निम्नतः कण्टकीभूतान् जनतासुखहेतवे । तस्य कोपोऽपि धर्माय किं पुनः प्रस्तुताः क्रियाः ॥ ६ ॥ अहो ! आश्चर्यमनिशं स्मृतिगोचरतां गतः । श्रीवीतरागो भगवांस्तस्य हृच्छयतां ययौ ॥ ७ ॥ आर्त्तानामर्त्तिहरणे स शरण्यः सदाऽभवत् । स्मरातुरपरस्त्रीणां न कदापि कथञ्चन ॥ ८ ॥ कालेन गच्छता सोऽथ भवोद्विग्नो महामनाः । गत्वारिदमनाचार्यान्तिके दीक्षामुपाददे ॥ ९॥ स व्रतं पालयंस्तीक्ष्णं स्थानकैः कैश्चिदप्यथ । तीर्थकृन्नाम कर्मोपार्जयामास महामुनिः ॥ १० ॥ ततो विधायानशनं समये स महामतिः । मृत्वा ग्रैवेयके षष्ठे महर्द्धिरमरोऽभवत् ।। ११ ।।
१ कुबोध एव ध्वांतस्तस्मिन् सुदिनं शुभदिवसः । २ सूर्यः । ३ हृदि शेत इति हृच्छयः तस्य भावस्तत्ता ताम् । * कामरूपताम् । + हा मुनिः । मृ ।
तृतीयं पर्व
पञ्चमः सर्गः श्रीसुपार्श्वजिनचरितम् ।
पूर्वभवः ।
।। ७९ ।।