________________
अर्धाष्टमाः पूर्वलक्षाः कौमारे षोडशाङ्गयुक् । पूर्वलक्षाणां सार्धेकविंशती राज्यपालने । १९४ ।। अङ्गैः षोडशभिyनं पूर्वलक्षं पुनव्रते । इति त्रिंशत्पूर्वलक्षाण्यायुः पद्मप्रभप्रभोः ।। १९५ ॥ सुमति स्वामिनिर्वाणान्मोक्षः पद्मप्रभप्रभोः । गतेष्वर्णवकोटीनां सहस्रेषु नवस्वभूत् ।। १९६ ।।
इन्द्राश्चतुःषष्टिरुपेत्य तत्र प्रभोर्मुनीनामपि भक्तिभाजः । शरीरसंस्कारमकार्षुरुच्चैर्निर्वाणकल्याणमहोत्सवं च ।। १९७ ।।
त्रिषष्टिशलाकापुरुषचरिते । ७८॥
तृतीयं पर्व चतुर्थः
सर्गः
श्रीपद्मप्रभजिनचरितम् ।
निर्वाणोत्सवः ।
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
तृतीये पर्वणि पद्मप्रभस्वामिचरितवर्णनो
नाम चतुर्थः सर्गः ।
॥७८ ।।