________________
त्रिषष्टि
शलाका
पुरुषचरि ॥७६॥
हा रत्नघटितास्तम्भा ! हा श्रीमन्मणिकुट्टिमाः । हा वेदिका रत्नमय्यः ! कस्य यास्यथ संश्रयम् ? ॥ १६८ ॥ हा रत्नसोपानचिताः ! कमलोत्पलमालिनः । भविष्यन्त्युपभोगाय कस्येमाः पूर्णवापयः ? ।। १६९ ॥ हे पारिजात मन्दार ! सन्तान ! हरिचन्दन ! | कल्पद्रुम ! विमोक्तव्यः किं भवद्भिरयं जनः ? ।।१७० ॥ हहा ! स्त्रीगर्भनरके वस्तव्यमवशस्य मे । हहा ! शुचिरसास्वादः कर्तव्यो मयका मुहुः ? ।। १७१ ।। हहा ! हा ! जैठराङ्गारशकटीपाकसम्भवम् । मया दुःखं विषोढव्यं बद्धेन निजकर्मणा ।। १७२ ।। रत्नेरिव निधानानि क्व तास्ताः सुरयोषितः । क्वाशूचिस्यन्दबीभत्सा भोक्तव्या नरयोषितः ॥ १७३ ॥ एवं स्वर्लोकवस्तूनि स्मारं स्मारं दिवौकसः । विलपन्तः क्षणस्यान्तर्विध्यायन्ति प्रदीपवत् ।। १७४ ॥ ॥ नवभिः कुलकम् ॥
असारमित्थं संसारं चिन्तयित्वा विमुक्तये । प्रयतेत परिव्रज्योपायेन शुभधीर्जनः ।। १७५ ।। भर्तुस्तया देशनया प्रतिबुद्धाः सहस्रशः । केचिदाददिरे दीक्षां सम्यक्त्वमपरे पुनः ।। १७६ ।। सुव्रताद्या गणभृतोऽभूवन् सप्तोतरं शतम् । जग्रन्थुर्द्वादशाङ्गीं ते प्रपद्य पदवीं प्रभोः ।। १७७ ।। देशनाविरते नाथे सुव्रतो देशनां व्यधात् । शिष्या गुरुणां. कूपानामाहावा इव तत्क्रियाः ।। १७८ ।। विरते देशनातोऽस्मिन्नपि सर्वे सुरादयः । प्रणिपत्य जगन्नाथं स्थानं निजनिजं ययुः ।। १७९ ।। तत्तीर्थजन्मा कुसुमो नीलाङ्गो मृगवाहनः । सफलं चाभयदं च बिभ्राणो दक्षिणौ करौ ॥ १८० ॥
I
१ भूमयः । २ जठरमेव अंगारशकटी तस्याः पाकात्संभूतम् । ३ अशुचिप्रस्रवणत्वेन बीभत्साः । ४ कूपस्य समीपे तज्जलस्थापनाय रचितः गर्तः आहाव उच्यते ।
तृतीयं पर्व
चतुर्थः
सर्गः श्रीपद्मप्रभजिनचरितम् ।
देवगति
स्वरुपम् ।
।। ७६ ।।