________________
तृतीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते ।७५॥
| चतुर्थः
सर्गः श्रीपद्मप्रभजिनचरितम् ।
प्राप्तेऽपि पुण्यतः स्वर्गे कामक्रोधभयातुराः । न स्वस्थतामश्नुवते सुराः कान्दर्पिकादयः ।। १५४ ।। अथ च्यवनचिह्नानि दृष्ट्वा हष्ट्वा विमृश्य च । विलीयन्तेऽथ जल्पन्ति क्व निलीयामहे वयम् ।। १५५ ॥ तथाहि - अम्लाना अपि हि मालाः सुद्धमसमुद्भवाः । म्लानीभवन्ति देवानां वदनाम्भोरुहैः समम् ।।१५६ ।। हृदयेन समं विश्वग्विश्लिष्यत्सन्धिबन्धनाः । महाबलैरप्यकम्प्याः कम्पन्ते कल्पपादपाः ।। १५७ ।। आकालप्रतिपन्नाभ्यां प्रियाभ्यां च सहैव हि । श्रीहीभ्यां परिमुच्यन्ते कृतागस इवामराः ॥१५८ ॥ अम्बरश्रीरपमला मलिनीभवति तत्क्षणात् । अप्यकस्माद्विसृमरैरघौधैर्मलिनैर्घनैः ।। १५९ ।। अदीना अपि दैन्येन विनिद्रा अपि निद्रया । आश्रीयन्ते मृत्युकाले पक्षाभ्यामिव कीटिकाः ॥ १६० ।। विषयेष्वतिरज्यन्ते न्यायधर्मविबाधया । अपथ्यान्यपि यत्नेन स्पृहयन्ति मुमूर्षवः ।। १६१ ॥ नीरुजामपि भज्यन्ते सर्वाङ्गोपाङ्गसन्धयः । भाविदुर्गतिपातोत्थवेदनाविवशा इव ॥ १६२ ॥ पदार्थग्रहणेऽकस्माद् भवन्त्यपटुष्टयः । परेषां सम्पदुत्कर्षमिव प्रेक्षितुमक्षमाः ॥ १६३ ॥ गर्भवासनिवासोत्थदुःखागमभयादिव । प्रकम्पतरलैरङ्गैर्भापयन्ति परानपि ॥ १६४ ।। निश्चितच्यवनाश्चिन्हैर्लभन्ते न रति क्वचित् । विमाने नन्दने वाप्यामङ्गारालिङ्गित्ता इव ॥१६५ ।। हा प्रिया ! हा विमानानि ! हा वाप्यो हा सुद्धमाः । क्व हष्टव्याः पुनर्पूयं हतदैववियोजिताः ? ॥१६६ ॥ अहो ! स्मितं ! सुधावृष्टिरहो ! बिम्बाधरः सुधा । अहो ! वाणी सुधावर्षिण्यहो ! कान्ता सुधामयी ॥१६७ ॥
१ कामवृद्धिकारकाः । २ विश्लिष्यति त्रुट्यति संधिबंधनानि येषाम् । ३ जन्मत आरभ्य प्राप्ताभ्याम् । ४ कृतापराधाः । ५ वस्त्रशोभा । ६ प्रसरद्धिः । ७ पापसमूहैः । ८ न्यायधर्मयोर्विबाधया । ९ अङ्गारैर्दग्धा इव । * ° रप्यम ।
देवगति| स्वरुपम् ।
॥ ७५ ॥