________________
त्रिषष्टिशलाकापुरुषचरिते
तृतीयं पर्व द्वितीयः
सर्गः
॥३३॥
अभिनन्दनजिनचरितम् ।
दुर्जनैर्निन्द्यमानः सन् हृदये मुमुदे चिरम् । साधुभिः पूज्यमानस्तु प्रत्युत त्रपते स्म सः ।। १२ ।। न मनागप्युद्विविजे क्लिश्यमानोऽपि पापिभिः । महद्भिः पूज्यमानोऽपि स नोत्सेकमशिश्रियत् ।। १३ ॥ उद्यानादिषु रम्येषु नारज्यद्विहरन्नसौ । सिंहव्याघ्रादिघोरेषु नारण्येषु व्यरज्यत ।। १४ ।। हेमन्ते हिमगहनाः क्षपयामास स क्षपाः । बहिः प्रतिमया तिष्ठन्नालानमिव निश्चलः ॥ १५ ॥ ग्रीष्मे सूर्योष्मभीष्मेऽपि कृतोत्सर्गः स आतपे। नाम्लायद्दिद्युते किन्तु वह्निशौचमिवांशुकम् ।। १६ ।। प्रावृषि मारुहतले तस्थौ प्रतिमया च सः । मतङ्गज इव ध्याननिष्पन्दनयनद्वयः ।। १७ ।। तपांस्येकावलीरत्नावलीप्रभृतिकानि सः । सर्वाण्यनेकशोऽकार्षीदतृप्तोऽर्थार्जनं यथा ॥ १८ ॥ विशतेः स्थानकानां च मध्यात्कतिपयैरपि । स्थानकैरर्जयामास तीर्थकृन्नामकर्म सः ।। १९ ।। चिरं व्रतं पालयित्वा प्रपन्नानशनः स तु । मृत्वा विमाने विजये महर्द्धिरभवत्सुरः ।। २० ॥ इतश्च जम्बूद्वीपस्य द्वीपस्य भरताभिधे । क्षेत्रेऽस्त्ययोध्येति पुरी पुरन्दरपुरीसमा ।। २१ ॥ प्रतिवेश्म मणिस्तम्भसन्क्रान्तो रजनीकरः । तत्र स्थावरशृङ्गारादर्शलक्ष्मी प्रपद्यते ।। २२ ।। तत्र क्रीडामयूरीभिराकृष्याकृष्य लम्बितैः । हारैः कल्पद्रुमायन्ते गृहाणामङ्गणद्रुमाः ।। २३ ॥ चन्द्रकान्तामनिःस्यन्दैस्तत्रोच्चैश्चैत्यपङक्तयः । उदारनिर्झरोद्गारगिरिलीलां वितन्वते ॥ २४ ॥ चैत्याग्रे रत्नबद्धोर्व्यस्तत्र सङ्क्रान्ततारकाः । विभान्ति देवतामुक्तकुसुमाञ्जलिविभ्रेमाः ।। २५ ॥
१ध्यानेन निष्पंदं स्थिरनयनयोः द्वयं यस्य । २ स्थावरः स्थिरः । तत्र मणिस्तम्भसक्रान्तः चन्द्रः स्थिरदर्पणः इव मातीति भावः । ३ आंदोलायितैः । ४ चंद्रकान्तमणिश्रावैः । ५ विभ्रमः शोभा । * °पे । धाम्ना यद् ।
पूर्वभवचरितम् ।
X
॥३३॥