________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ २०६ ॥
REDERERER
REDERERES
अग्रणीः सर्वदोषाणामापदामेकमास्पदम् । सम्पदामपहर्तैकः, कर्ता दुर्यशसामपि ॥ ५४६ ॥
अपि वंशस्य संहर्ता, हर्ता निखिलशर्मणाम् । प्रहर्ता परलोकस्य, दर्पो वैरी शरीरजः ॥५४७॥ ॥ युग्मम् ॥ तद् दर्पः परिहर्तव्यः, सर्पवत् सत्पथस्थितैः । सामान्यैरपि पुरुषैर्मत्पौत्रेण विशेषतः ॥ ५४८ ॥ यथापात्रं विनीतेन, भवितव्यं ततस्त्वया । गुणप्रकर्षो विनयादशक्तस्याऽपि जायते ॥ ५४९ ॥ शक्तस्य पुंसो विनयः, सुवर्णस्येव सौरभम् । निष्कलङ्कवपुष्टेव, पार्वणस्य हिमद्युतेः ॥ ५५० ॥ सुराणामसुराणां च, नागादीनामपि त्वया । उपचारो यथाक्षेत्रं, कार्यः कार्ये सुखेऽपि हि ॥ ५५१ ॥ उपचारार्हणीयेषु, नोपचारो हि दोषकृत् । अपचारस्तु दोषाय, पित्तात्मन इवाऽऽतपः ॥ ५५२ ॥ ऋषभस्वामिपुत्रेण, भरतेनापि चक्रिणा । वशंवदा देव-दैत्या, उपचारेण चक्रिरे ॥ ५५३ ॥ शक्तेनाऽपि सता तेनोपचारो देवतादिषु । दर्शितो यस्तथा कार्य:, स कुलाचार इत्यपि ॥ ५५४ ॥ तथेति प्रतिपेदेस, महाभागो भगीरथः । निसर्गेण विनीतस्य, शिक्षा सद्भित्तिचित्रवत् ॥ ५५५ ॥ अर्पयित्वा दण्डरत्नं, स्वं प्रतापमिवोर्जितम् । चुम्बित्वा मूर्ध्नि सगरो, विससर्ज भगीरथम् ॥ ५५६ ॥ चक्रिणश्चरणाम्भोजे, प्रणम्याऽथ भगीरथः । सदण्डरत्नो निरगात्, सविद्युदिव वारिदः ॥ ५५७ ॥ महता चक्रिसैन्येन, वृत्तो जानपदैश्च तैः । रेजे भगीरथः शक्र इवाऽनीकप्रकीर्णकैः ॥ ५५८ ॥ आससाद क्रमेणाऽथाऽष्टापदाद्रिं भगीरथः । मन्दाकिन्या वलयितं, त्रिकूटाद्रिमिवाऽब्धिना ॥ ५५९ ॥ उद्दिश्य तत्र तं नागकुमारं ज्वलनप्रभम् । तपोऽष्टमं स विदधे, विधिवेदी भगीरथः ॥ ५६० ॥
१ निष्कलङ्कशरीरता इव । २ पित्तप्रकृतेर्जनस्य । ३ अङ्गीचक्रे ।
REDERERERERERERERERERERERE
द्वितीयं पर्व
षष्ठः सर्गः
अजित
सगर
चरितम् ।
गङ्गाप्रवाहस्खलनाय
भगीरथस्य
गमनम् ।
॥ २०६ ॥