SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ द्वितीयं पर्व त्रिषष्टिशलाकापुरुषचरिते सर्गः अजितसगरचरितम्। ॥२०५॥ 282828282828282828282828282 कालसेयेन च क्षीरं, रासभेन च वाजिनम् । क्रीणाति योऽर्जयेन्मोक्षमसारेणेह वह्मणा ॥५३२॥॥ युग्मम् ॥ एवमाभाषमाणस्य, तदा सगरचक्रिणः । द्वार्याययुर्विषयिणोऽष्टापदाभ्यर्णवासिनः ॥५३३ ॥ अस्मांस्त्रायस्व त्रायस्वेत्युच्चैःपूत्कारकारिणः । आजूहवत् तान् सगरचक्रभृद् वेत्रपाणिना ॥५३४ ॥ हंहो! किमिदमित्युच्चैर्भाषिताश्चक्रवर्तिना । कृतप्रणामाः सम्भूय, ग्रामीणास्ते व्यजिज्ञपन् ॥५३५॥ अष्टापदाद्रिपरिखापूरणाय सरिद्वरा । या कृष्टा दण्डरत्नेन, कुमारैस्तैनरेश्वर! ॥५३६ ॥ पातालमिव दुष्परां, पूरयित्वा क्षणेन ताम् । साऽतिक्रामत्युभे कूले, कुलटेव कुलद्वयम् ॥५३७॥ | अष्टापदाभ्यर्णवर्ति, ग्रामा-ऽऽकर-पुरादिकम् । आप्लावयितुमारब्धा, पर्यस्त इव सागरः ॥५३८ ॥ अधुनाऽपि युगान्तोऽयमस्माकं समुपस्थितः । तदादिश वयं कुत्र, तिष्ठामो निरुपद्रवाः? ॥५३९ ॥ ततश्च सगरश्चक्री, निजं पौत्रं भगीरथम् । वात्सल्यसारया वाचा, समाहूयेदमादिशत् ॥५४०॥ पूरयित्वाऽष्टापदाद्रिपरिखां तां सरिद्वरा । उन्मत्तेव भ्रमन्त्यस्ति, सा ग्रामादिषु सम्प्रति ॥५४१॥ तां दण्डेन समाकृष्य, क्षिप पूर्वपयोनिधौ । अदर्शितपथं याति, पयो द्वन्धवदत्पथे ॥५४२॥ बाहुवीर्यमसामान्यमैश्वर्यं भुवनोत्तरम् । अत्युल्बणं हस्तिबलमश्वीयं विश्वविश्रुतम् ॥५४३ ॥ पादातमतिविक्रान्तं, महद् रथबलं तथा । अत्युत्कटः प्रतापश्च, निःसीमं शस्त्रकौशलम् ॥५४४॥ दैवतानामायुधानां, सम्पत्तिश्चेत्यमून्यलम् । दर्प यथा द्विषां नन्ति, जनयन्त्यात्मनस्तथा ॥५४५ ॥ ॥त्रिभिर्विशेषकम्॥ १ तक्रेण। २ शरीरेण। ३ जनपदवासिनो जनाः। ४ अश्वसैन्यम् । ५ पदातिसैन्यम् । 2828282828282828282828282829 गङ्गाप्रवाहस्खलनाय भगीरथस्य गमनम्। ॥ २०५॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy