________________
त्रिषष्टि
शलाकापुरुषचरिते
द्वितीयं पर्व चतुर्थः
सर्गः
॥१३९॥
अजितसगरचरितम्।
28282828282828282828282828
स्वं बान्धवमिवाऽभीष्ट, तमाभाष्य सगौरवम् । सगरो विससर्जाऽथ, चकाराऽष्टमपारणम् ॥१४३॥ वैताढ्याद्रिकुमारस्य, चक्रे चाऽष्टाह्निकोत्सवम् । निजप्रसादप्रासादसुवर्णकलसोपमम् ॥१४४ ॥ ततश्चक्रानुगो गत्वा, तमिस्रां निकषा गुहाम् । पञ्चानन इवोवास, निधाय शिबिरं नृपः ॥१४५ ॥ कृतमालाभिधं तत्र, देवं मनसिकृत्य सः । चक्रेऽष्टमतपः कृत्यं, महान्तो न त्यजन्ति हि ॥१४६ ॥ राज्ञोऽष्टमे परिणमत्यकम्पत तदासनम् । तादृशामभियोगे हि, कम्पन्ते पर्वता अपि ॥१४७ ॥ ज्ञात्वाऽवधिप्रयोगेण, कृतमालोऽपि चक्रिणम् । उपस्थितं प्रभुमिवोपतस्थे गगनस्थितः ॥१४८ ॥ स्त्रीरत्नयोग्यं तिलकचतुर्दशमदत्त सः । नेपथ्यजातं वस्त्राणि, गन्ध-चूर्ण-स्रगादि च ॥१४९ ॥ देवो जय जयेत्युक्त्वा, स सेवां प्रत्यपद्यत । सेवनीयाश्चक्रिणो हि, देवैरपि नरैरिव ॥ १५० ॥ प्रसादपूर्वमालप्य, नृपतिर्विससर्ज तम् । चक्रे च सपरीवारोऽष्टमभक्तान्तपारणम् ॥१५१॥ देवस्य कृतमालस्य, सादरः सगरस्ततः । अष्टाह्निकोत्सवं चक्रे, देवानां प्रीतिदं ह्यदः ॥१५२॥ अष्टाह्निकान्ते सगरः, पश्चिमं सिन्धुनिष्कुटम् । विजेतुमर्धसैन्येन, सैन्यनाथं समादिशत् ॥१५३ ॥ अथ तन्मेदिनीभर्तुः, शासनं रचिताञ्जलिः । शिरसा प्रतिजग्राह, मालामिव चमूपतिः ॥१५४ ॥ विख्यातो भारते वर्षे, महाबल-पराक्रमः । नभस्वानिव विवस्वानिव चोग्रेण तेजसा ॥१५५ ॥ समस्तम्लेच्छभाषाज्ञः, समस्तलिपिपण्डितः । विचित्रचारुभाषी च, सरस्वत्या इवाऽऽत्मजः ॥१५६ ॥ निष्कुटानामशेषाणां, भरतक्षेत्रवर्तिनाम् । जल-स्थलजदुर्गाणां, विज्ञाताऽऽगम-निर्गमौ ॥१५७॥ १ उद्योगे। २ स्वीकृतवान् । ३ वायुः। ४ सूर्यः ।
282828282828282828282828282
सगरस्य दिग्विजयः
॥१३९॥