________________
त्रिषष्टिशलाका
पुरुषचरिते
द्वितीयं पर्व चतुर्थः सर्गः अजितसगरचरितम्।
॥१३८॥
RSE 282828282828282828282828
सिन्धुदेवीसद्मनश्चाऽदूरतः शिबिरं न्यधात् । सद्योऽवतीर्णगन्धर्वपुरोपममिलापतिः ॥१२८ ॥ सिन्धुदेवीं च मनसि, कृत्वाऽष्टमतपो नृपः । चकार सिन्धुदेव्याश्च, रत्नासनमकम्पत ॥१२९ ॥ विदाञ्चकाराऽवधिना, सा च चक्रिणमागतम् । उपायनकरा भक्तिपराऽथ तमुपाययौ ॥१३० ॥ अष्टोत्तरं रत्नकुम्भसहस्रं निधिसोदरम् । मणि-रत्नविचित्रं च, स्वर्णभद्रासनद्वयम् ॥१३१॥ केयूर-कटकादीनि, रत्नालङ्करणानि च । देवदूष्याणि च ददौ, भूभुजे सा नभस्थिता ॥१३२॥ ॥ युग्मम् ॥ इत्यभाषिष्ट सा देवी, नरदेववराऽधुना । भवद्विषयवास्तव्या, किङ्करीवाऽस्मि शाधी माम् ॥ १३३ ॥ अतिपीयूषगण्डूषैर्वचोभिः प्रतिभाष्य ताम् । विससर्ज महीनाथश्चक्रे चाऽष्टमपारणम् ॥१३४ ॥ विदधे सिन्धुदेव्याश्च, प्राग्वदष्टाह्निकोत्सवम् । महात्मनां महीनामुत्सवा हि पदे पदे ॥१३५ ॥ चक्रमायुधशालायाः, स्वशालाया इव द्विपः । निर्जगाम श्रियां धाम, ककुभोत्तरपूर्वया ॥१३६ ॥ नृपस्तदनुगच्छंश्च, दिनैः कतिपयैरपि । नितम्बं दक्षिणं प्राप, वैताढ्यस्य महागिरेः ॥१३७॥ निधाय तत्र शिबिरं, विद्याधरपुरोपमम् । अधिवैताढ्यकुमारं, सोऽष्टमं विदधे तपः ॥१३८ ॥ महीपतेः परिणमत्यष्टमे च तपस्यथ । वैताढ्याद्रिकुमारस्य, सिंहासनमकम्पत ॥१३९ ॥ वैताढ्याद्रिकुमारोऽपि, बुबुधेऽवधिना ततः । भरतार्धावधावभ्युपेतं सगरचक्रिणम् ॥१४० ॥ सोऽभ्येत्य राज्ञे रत्नानि, दिव्यानि वसनानि च । ददौ नभःस्थितो भद्रासन-वीरासनानि च ॥१४१॥ चिरं जीव चिरं नन्द, चिरं जय जयेति च । सौवस्तिक इव स्माऽऽह, स हृष्टः पृथिवीपतिम् ॥१४२ ॥
१ त्वद्देशवासिनी। २ दिशया। ३ पूर्णे। ४ भरतार्धस्य सीमनि । ५ स्वस्तिवाचको द्विजः ।
282828282828282828282828282
सगरस्य दिग्विजयः।
॥१३८॥