________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थः
सर्गः अजितसगरचरितम्।
॥ १३५ ॥
28282828282828282828282828
नवानारोपयन् कांश्चित्, कीर्तिस्तम्भानिवोच्चकैः । कांश्चिन्मुञ्चन् नमयित्वा, नद्योघो वेतसानिव ॥८६॥ कुर्वन् कृत्तालीन् कांश्चित्, कांश्चिद् रत्नानि दण्डयन् । हस्त्यश्वं त्याजयन् कांश्चित्, कांश्चिच्छत्राणि मोचयन्॥४७॥ क्रमादासादयामास, रोधो दक्षिणवारिधेः । सर्वदिग्जयनिर्माणे, सगरोदृढसङ्गरः॥८॥ अवतीर्य करिस्कन्धात्, स्कन्धावारे क्षणात् कृते । विमाने वज्रभृदिवोवासवेश्मनि चक्रभृत् ॥ ८९ ॥ तत्र पौषधशालायां, कृताष्टमतपा नृपः । उद्दिश्य वरदामानं, तस्थौ स्वीकृतपौषधः ॥९०॥ सगरोऽष्टमभक्तस्य, प्रान्ते पारितपौषधः । आच्छिन्नमिव मार्तण्डादारुरोह महारथम् ॥९१॥ नाभिदजो रथो यावदगाहत महोदधिम् । रथेन सगरस्तेन, मथेव दधिमन्थनीम् ॥ ९२ ॥ अधिरोप्य धनुर्मूर्णि, ज्यां टङ्कारमकारयत् । आकर्ण्यमानं न्यत्कर्णैर्यादोभिस्त्रासविह्वलैः ॥९३ ॥ अथेषुमिषुधेर्मध्याद्, भीषणोभ्योऽपि भीषणम् । अग्रहीदवनीनाथो, वार्तिकोऽहिं बिलादिव ॥९४ ॥ विधाय लस्तकन्यस्तं, तं कर्णाभ्यर्णमानयत् । विज्ञप्तिकार्थिनमिव, सेवकं सायकं नृपः ॥ ९५ ॥ वरदामपतेर्धाम, प्रतीषु विससर्ज तम् । चक्रभृद् वज्रभृदिव, वजं प्रति शिलोच्चयम् ॥९६ ॥ वरदामकुमारस्य, सभायां तस्थुषः पुरः । निपपात शरोऽकाण्डमुद्गराघातसन्निभः ॥ ९७ ॥ अकाले कस्य कालेनोत्क्षिप्तं पत्रमिति ब्रुवन् । वरदामपतिर्बाणमुत्थाय स्वयमाददे ॥९८ ॥
282828282828282828282828284
सगरस्य दिग्विजयः।
||॥ १३५ ।।
१ छिन्नाङ्गुलीन् । २ दृढप्रतिज्ञः । ३ इन्द्रः। ४ गृहीतम्। ५ तूणीरस्य। ६ गारुडिकः । ७ धनुर्मध्यदेशः। ८ विज्ञापनाचिकीर्षम् ।