________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थः
सर्गः अजितसगरचरितम् ।
॥१३४॥
282828282828282828282828282
आसाञ्चक्रे धृतशरो, भूयः सिंहासने निजे। गिरा गम्भीरया स्वस्यां, पर्षद्येवमुवाच च ॥७१॥ द्वीपस्य जम्बूद्वीपस्य, क्षेत्रे भरतनामनि । द्वितीयश्चक्रभृञ्जज्ञे, सगरो नाम सम्प्रति ॥७२॥ अवश्यकृत्यं भूतानां, भाविनां च सतां तथा । मागधाधिपतीनां हि, प्राभृतं चक्रवर्तिषु ॥७३ ॥ स इत्युदीर्य निभृतं, प्राभृतैर्भूतकायितः । उपतस्थे सविनयः, सगरं चक्रवर्तिनम् ॥ ७४ ॥ तं शरं हार-केयूर-ताडङ्क-कटकादिकम् । नेपथ्यं देवदूष्याणि, राज्ञेऽदात् स नभःस्थितः ॥७५ ॥ अम्भो मागधतीर्थीयं, स मागधकुमारकः । नरेन्द्रस्याऽर्पयामास, रसेन्द्रमिव वार्तिकः ॥७६ ॥ अञ्जलिं रचयित्वोच्चैः, पद्मकोशविडम्बकम् । उवाच मागधपतिर्वसुधाधिपतिं ततः ॥७७ ॥ एतस्मिन् भरतक्षेत्रे, प्राच्यां दिशि तवाऽस्म्यहम् । प्रान्तवत्र्येकसामन्त, इवाऽऽदेशकरः सदा ॥ ७८ ॥ भृत्यत्वेन प्रतीयेष, ततस्तमवनीपतिः । विससर्ज च सत्कृत्य, दुर्गपालमिव स्वकम् ॥७९॥ उदयन्निव मार्तण्डः, सगरः सागराम्भसः । निर्जगाम निजेनोच्चै, रुन्धानस्तेजसा दिशः ॥८०॥ गत्वा च शिबिरं स्नान-देवार्चनपुरःसरम् । विदधे सपरीवारः, पारणं राजवारणः ॥ ८१ ॥ अथ मागधतीर्थाधिपतेरष्टाह्निकोत्सवम् । चक्रे चक्री स्वामिदत्तमाहात्म्याः खलु सेवकाः ॥ ८२॥ सर्वदिग्विजयश्रीणामर्पणप्रतिभूसमम् । चक्ररत्नं चक्रिणोऽथ, प्रतस्थे दक्षिणां प्रति ॥ ८३ ॥ अपाक्पश्चिममार्गेण, चक्री चक्रानुगस्ततः । प्रचचालाऽचलां सैन्यैः, साचलां चलयन्निव ॥८४ ॥ कानप्युन्मूलयन् राज्ञस्तरूनिव समीरणः । शालिस्तम्बानिवोत्खाय, कानपि प्रतिरोपयन् ॥८५॥ १ वर्तमानानाम् । २ भृत्य इवाचरितः । ३ सिद्धरसम्। ४ सिद्धपुरुषः । ५ साक्षी । ६ वसुधाम् । ७ पर्वतसहिताम् ।
282828282828282828282828282
सगरस्य दिग्विजयः।
।।१३४॥