SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व तृतीयः सर्गः अजितसगरचरितम् । ॥७८॥ 282828282828282828282828282 देवदूष्याण्यदूष्याणि, जगन्नाथेन तत्क्षणे । वासांसि वासयामास, वासवो वासनावसुः ॥ २०१॥ मुकुटं कुण्डले हारं, केयूरे कङ्कणे अपि । अपरानप्यलङ्कारान्, नाथेनाऽग्राहयद्धरिः॥२०२॥ प्रसूनदामभिर्दिव्यैः, सनाथीकृतकुन्तलः । तृतीयेनेव नेत्रेण, तिलकेनालिके विभान् ॥२०३॥ देवीभिर्दानवीभिश्च, मानवीभिश्च सर्वतः । विचित्रभाषामधुरं, गीतोपक्रान्तमङ्गलः ॥ २०४ ॥ सूतैरिव स्तूयमानः, सुरा-ऽसुर-नरेश्वरैः । व्यन्तरैः कृतधूपार्घः, स्वर्णधूपघटीधरेः ॥ २०५॥ सकुरण्टकेन श्वेतातपत्रेण महीयसा । विराजमानः शिरसि, हृदेनेव हिमाचलः ॥२०६ ॥ वीज्यमानोऽमरैश्चारुचामरैः पार्श्वयोर्द्वयोः । वेत्रिणेव विनीतेन, दत्तहस्तो बिडौजसा ॥२०७॥ हर्ष-शोकादिमूढेन, सगरेण महीभुजा । अनुकूलानिलेनेवाऽन्वीयमानोऽश्रुवर्षिणा ॥२०८ ॥ परितः पावयन् पादैः, स्थलाम्भोजनिभैर्भुवम् । सहस्रवाह्यामारोहच्छिबिकां सुप्रभां प्रभुः ॥२०९॥ ॥सप्तभिः कुलकम् ॥ उदासे शिबिका पूर्वं, नरैविद्याधरैस्ततः । देवैस्तदनु खे खेटविमानभ्रमदायिनी ॥ २१०॥ तैरुत्क्षिप्ताऽम्बरतलेऽनुद्घातगतिशालिनी। यानपात्रमिवाऽम्भोधौ, सा स्वामिशिबिका बभौ ॥२११॥ तत्र सिंहासनासीनं, चामराभ्यां जगत्प्रभुम् । वीजयामासतुरुभौ, सौधर्मेशानवासवौ ॥ २१२ ॥ प्रचचाल जगन्नाथो, विनीतामध्यवर्त्मना । वरो वधूपाणिमिव, दीक्षामादातुमुत्सुकः ॥२१३ ॥ चलन्तश्चलताडङ्काश्चलहाराश्चलाञ्चलाः । शिबिकावाहिनो रेजुश्चलाः कल्पद्रुमा इव ॥२१४ ॥ १ अदूषितानि। २ धर्मरूपा वासना एव वसुर्यस्य सः। ३ ललाटे। ४ बन्दिजनैः। ५ इन्द्रेण । ६ देवः । ७ प्रतिघातवर्जितया गत्या राजमाना। ८ चलकुण्डाः । ९ चलवस्त्राञ्चलाः। 282828282828282828282828282 अजितजिनप्रव्रज्यामहोत्सवः। ॥७८॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy