________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व तृतीयः सर्गः अजित
॥७७॥
सगरचरितम् ।
1882828282828282828282828288
ततश्चाऽदत्त वर्षेण, हेम्नः कोटिशतत्रयम् । अष्टाशीति तथा कोटीर्लक्षाशीति तथा प्रभुः ॥१८६ ॥ अनभावेन कालस्य, स्वामिनश्च प्रभावतः । यथेप्सितप्रदानेऽपि, नाऽधिकग्राहिणोऽभवन्॥१८७॥ कपाधनो धिनोति स्म, धनैरेवं धरां प्रभुः । चिन्तामणिरिवाऽचिन्त्यमहिमा वत्सरावधि ॥१८८॥ अथ वार्षिकदानान्ते, शक्रस्याऽचलदासनम् । अवधिज्ञानतोऽज्ञासीत्, स च दीक्षाक्षणं विभोः ॥१८९॥ चचाल च हेरिर्देवैः, समं सामानिकादिभिः । दीक्षाक्षणे भगवतः, कर्तुं निष्क्रमणोत्सवम् ॥१९०॥ विमानै रचयन्नाशाः, सञ्चरन्मण्डपा इव । उत्तुङ्गैर्वारणवरैरुत्पतत्पर्वता इव ॥ १९१ ॥ आक्रामन् व्योम तुरगैस्तरङ्गैरिव सागरः । आघट्टयन् रविरथं, रथैरस्खलितस्यदैः ॥१९२ ॥ नभस्तलं तिलकयन्, किङ्कणीमालभारिभिः । ध्वजांशुकैश्च दिग्दन्तिकर्णतालानुहारिभिः ॥१९३ ॥ गीयमानोऽमरैः कैश्चिद्, गान्धारग्रामबन्धुरम् । स्तूयमानस्तथा कैश्चित्, सत्काव्यकुलकैर्नवैः ॥१९४ ॥ कैश्चिद् विज्ञप्यमानश्च, मुखदत्तपटाञ्चलैः । संस्मार्यमाणः कैश्चिच्च, प्राक्तनीस्तीर्थकृत्कथाः ॥१९५ ॥ पवित्रितां स्वामिपादैर्मन्यमानोऽधिकां दिवः । दिवस्पतिरुपेयाय, विनीतानगरी क्षणात् ॥१९६ ॥ अन्येऽप्यासनकम्पेन, ज्ञात्वा दीक्षाक्षणं विभोः । सुरेन्द्रा असुरेन्द्राश्च, विनीतां तद्वदाययुः ॥१९७ ॥ तत्राऽच्युताद्या देवेन्द्रा, नरेन्द्राः सगरादयः । दीक्षाभिषेकं विदधुः, क्रमेण परमेशितुः ॥१९८ ॥ वाससा देवदूष्येण, वपुः स्नानजलाविलम् । ममार्ज शक्रो माणिक्यमिव वैकटिकाग्रणीः ॥१९९ ॥ गन्धकार इवाऽऽयुक्तो, वज्रपाणिः स्वपाणिना । चर्चयामास रुचिरैरङ्गरागैर्जगद्गुरुम् ॥२००॥ १ दीक्षासमयम् । २ इन्द्रः। ३ अकुण्ठितवेगैः । ४ आर्द्रम् । ५ मणिकारमुख्यः ।
282828282828282828282828282
अजितजिनप्रव्रज्यामहोत्सवः।
॥७७॥