________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व तृतीयः सर्गः अजितसगरचरितम्।
॥६६॥
282828282828282828282828288
षाड्गुण्योपायशक्त्यादिप्रयोगोर्मिभिराकुलम् । अगाहिष्ट स दुर्गाहमर्थशास्त्रमहोदधिम् ॥ २९ ॥ सौषधीरस-वीर्य-विपाकज्ञानदीपकम् । अप्यायुर्वेदमष्टाङ्गमध्यैष्टाऽकष्टमेव सः ॥३०॥ चतुर्वाद्यं चतुर्वृत्ति, चतुर्धाभिनयात्मकम् । स तूर्यत्रयविज्ञाननिदानं शास्त्रमाददे ॥३१॥ दन्तघात-मदावस्था-ऽङ्गलक्षणचिकित्सितैः । विनोपदेशैश्चाऽऽपूर्णं, सोऽज्ञासीद् गजलक्षणम् ॥ ३२ ॥ स वाहनविधिं चाश्वलक्षणं सचिकित्सितम् । पाठतोऽनुभवतश्च, विदधे हृदयङ्गमम् ॥ ३३ ॥ धनुर्वेदमथाऽन्येषां, शस्त्राणामपि लक्षणम् । श्रुतमात्रं लीलयाऽपि, स स्वनामेव हृद्यधात् ॥ ३४ ॥ धनुषा फलका-ऽसिभ्यां, छुर्या शल्येन पशुना । कुन्तेन भिन्दिपालेन, गदया कम्पणेन च ॥ ३५ ॥ दण्डेन शक्त्या शूलेन, हलेन मुशलेन च । यष्टि-पट्टिस-दुःस्फोट-मुषुण्ढी-गोफणैरपि ॥ ३६ ॥ कणयेन त्रिशूलेन, शङ्खना चापरैरपि । शस्त्रैः शास्त्रानुमानेन, सोऽगात् सङ्ग्रामकौशलम् ॥३७॥
॥त्रिभिर्विशेषकम् ॥ सोऽभूत् सर्वकलापूर्णः, शशाङ्कइव पार्वणः । भूषणैरिव च गुणैर्विनयाद्यैरभूष्यत ॥ ३८ ॥ श्रीमानजितनाथोऽपि, यस्मिंस्तस्मिन्नपि क्षणे ।शक्रादिभिः सुरैर्भक्तिभाग्भिरेवमसेव्यत ॥३९॥ चिक्रीडुः केचिदागत्य, सवयोभूय नाकिनः । अजितस्वामिनस्तत्तल्लीलालोकनलालसाः ॥ ४०॥ नर्मोक्तिभिर्विचित्राभिश्चाटुभिश्च मुहुर्मुहुः । तं केऽप्यभाषयंस्तद्वाक्सुधारसपिपासिताः ॥४१॥ आदेशाकाङ्ख्या भर्तुरसमादिशतः सतः । क्रीडाद्यूते पणीकृत्याऽऽदेशान् स्वयं केऽप्यहारयन् ॥४२॥
282828282828282828282828286
सगरचक्रिणो विद्याभ्यासः।
॥६६॥
१फलकं'ढाल' इति लोके प्रसिद्धम्।