________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व तृतीयः सर्गः अजितसगरचरितम्।
॥६४॥
282828282828282828282828288
(तृतीयः सर्गः) धात्रीभिः पञ्चभिः शक्रादिष्टाभिरजितप्रभुः । अपाल्यत नराधीशादिष्टाभिः सगरः पुनः॥१॥ स्वपाणिपङ्कजाङ्गुष्ठे, सुरसरङ्क्रमितां सुधाम् । पिबति स्माऽजितस्वामी, न ह्यर्हन्तः स्तनन्धयाः ॥२॥ सगरस्तु यथाकालं, धात्रीस्तन्यमनिन्दितम् । अपिबत् सारणीनीरमिवाऽऽराममहीरुहः ॥३॥ वृद्धिं शाखे इव तरोर्दन्ताविव च दन्तिनः । दिने दिने प्रपेदाते, तौ कुमारो नरेशितुः ॥४॥ क्रमेण युगपच्चापि, तावुत्सङ्ग महीपतेः । समारुरुहतुः पञ्चाननपोतौ गिरेरिव ॥५॥ नितान्तमग्धैः पितरौ, सिष्मियाते स्मितैस्तयोः । विसिष्मियाते सौजस्कैः, पादचमणैः पुनः ॥६॥ धात्रीभिर्धार्यमाणावप्युत्सने तौ न तस्थतुः । न केसरिकिशोराणां, पञ्जरे जात्ववस्थितिः ॥७॥ स्वच्छन्दं विचरन्तौ तौ, रभसादनुधाविनीः । खेदयामासतुर्धात्रीर्वयो गौणं महात्मनाम् ॥८॥ क्रीडाशुक-मयूरादीनाददाते विहङ्गमान् । राज्ञः कुमारौ तौ वेगादतिवायुकुमारकौ ॥९॥ गते प्रस्खलयामासुर्धात्र्यो विविधचाटुभिः । स्वच्छन्दचारिणौ बालौ, तौ भद्रकलभाविव ॥१०॥ दिव्यघर्घरका रेजुयोरपि कुमारयोः । झणज्झणितिकुर्वाणाः, पदाब्जेष्वलयो यथा ॥११॥ तयोः कण्ठे निबद्धाऽभात्, स्वर्णरत्नललन्तिका । हदि झलज्झलयन्ती, नभसीव तडिल्लता ॥१२॥ तयोश्च क्रीडतोः स्वैरं, चले काञ्चनकुण्डले । दधतुर्वारिसक्रान्तनूतनादित्यविभ्रमम् ॥१३॥ १ सिंहकिशोरको। २ आनाभि लम्बमाना माला।
28282828282828282828282828
अजितजिनसगरचक्रिणोबल्यलीला।
॥६४॥