________________
६६
प्रथमाविभक्तिविचारः ।
अत एव " तिङ्कृतिङ" इति सूत्रमतिङन्तात्परं तिङन्तं निहन्यत इत्यर्थकम् अग्निं दूतं वृणीमहे इत्यादौ तिङन्ते दृणीमहे शब्दे निघातखरं विदधाति तत्र सूत्रे पचति भवतीत्यादौ भवतीत्यादितिङन्ते निघातवारणायातिङ इति पदं सार्थकम् । अन्यथा तिङन्तयोरेकवाक्यताविरहे सामर्थ्याश्रित निघातविधेस्तिङन्तपरे तिङन्ते प्रसक्तिर्न भवतीति व्यर्थमेवातिपदं स्यात् । न चैकतिवाक्यमित्यनेन नानेक तिङन्तवाक्यस्य निषेधः किं तु वाक्यं सतिङन्तमेवेति नियम इति वाच्यम् ।
कष्टा वेधव्यथा कष्टं नित्यमुद्दहनक्लमः । श्रवणः नामलङ्कारः कपोलस्य तु भूषणम् ॥ इत्यादेस्तिङन्तशून्यवाक्यस्य दर्शनात् । न चास्तिभवतिपरः प्रथमपुरुषो प्रयुज्यमानोऽप्यस्तीति कात्यायनवचनात् तिङन्तशून्यवाक्येऽस्तीत्यध्याहार इति वाच्यम् । अध्याहारे मानाभावात् । तिङन्तविनाकृतं वाक्य न्नानुभावकमिति व्युत्पत्तिरपि न सम्भवति । तथा हि । - प्रथमान्ततिङन्तघटितवाक्यस्थले प्रथमान्तार्थस्य तिङन्तेऽन्वयोऽभ्युपेयते भृतले न घट इत्यादावस्तीत्यध्याहारे तिङर्थे नञर्थविशेषणघटस्यान्ययासम्भवात् न च भूतलवृत्तित्वाभावो घटेऽन्वेतीति वाच्यम् । कारकस्य काकान्तिर्थस्य वा क्रियातिरिक्तेऽस्त्रयस्या व्युत्पन्नत्वात् न च भूतलाधेयत्वा भावोऽस्ती यत्र धात्वर्थ एवान्वेति धात्वर्थविशेषणे तिङर्थकर्तरि घटस्य तादात्म्ये नान्वयइति वाच्यम् । घटपदस्यातीतघटपरतायां घटस्य तिङर्थकर्तरि योग्यतांविरहात् तादात्म्येनान्वयासम्भवा