________________
विभक्त्यर्थनिर्णये ।। लदैव भवति यदि देवदत्तसम्बोध्यत्वं वचनक्रियायामन्वेति । न च ब्रूहीत्यत्र तिर्थकर्तरि सम्बोधनप्रथमान्तार्थस्य देवदत्तस्य तादात्म्य न सम्बोधनार्थस्य वा समवायनान्वयोऽस्तु तावताऽप्येकवाक्यत्वरूपसामर्थ्यमुपपद्यत इति वाच्यम् । मध्यमपुरुषार्थ कर्तरि युष्मदर्थातिरितस्य तादात्म्येनान्वयायोगात् । व्रजानि देवदत्तेत्यत्र तिङर्थकर्तरि सम्बोधनप्रथमान्तार्थस्य तादात्म्येन संबोधनार्थस्य च समवायेनाऽयोग्यतयान्वयासम्भवाच्च । तथाचोक्तं हरिणा।
सम्बोधनपदं यच्च तत् क्रियाया विशेषणं । बजानि देवदत्तति निघातोत्र तथा सति ॥ तस्मात्यातिपदिकविशेषितं सम्बोध्यत्वं क्रियायां विशेषणं तिङन्तविनाकृतं वाक्यमेव नास्तीति कात्यायनानुसारिणो वैयाकरणाः । फणिभाष्यकृतस्तु एकतिङ्वाक्यमिति नानुमन्यन्ते । पश्य मृगो धावति, जानौहि जगज्जगन्नाथाज्जायते, अस्ति साधवः सौदन्ति, भवति दुजना मोदन्ते, इत्याद्यनेकतिङन्तमप्येक वाक्यं मन्यन्ते तत्र मृगकर्तृकधावनस्य धावनकट मृगस्य वा कर्मतया दर्शने, जगत्कर्ट कनाथहेतुकजननस्य नाथहेतुकजननकट जगतो वा कर्मतया जाने, साधुकरी कसौदनस्य सौदनकर्ट साधोवी कर्ट तथा सत्तायां, दुर्जनकर्ट कमोदस्य मोदकर्ट दुर्जनस्य वा कर्ट तया संसर्गेण भवने, यथादर्शनमन्वयो पगमादेवाक्यतानिर्वाहः । तथोक्तं च ।।
मुबन्तं हि यथाऽनेकं सुबन्तस्य विशेषणं । तथा तिङन्तमध्याहुस्तिङन्स्य विशेषणम् ॥..