________________
विभक्त्यर्थनिर्णये। . वेदाः प्रमाणमित्यादौ प्रकृत्यर्थतावच्छेदकप्रमाणत्वे तदद्वारा प्रमाणे वा एकत्वस्यान्वयः । यत्र तु "विंशत्याद्या: सदैकत्वे सर्वाः संख्ये यसंख्ययोरि"ति कोशेनानुशिष्टस्यैकवचनस्यार्थ एकत्वं विंशतित्वादिसंख्यायामन्वेति। यथा विंशति ब्राह्मणाः शतं धार्तराष्ट्राः सहवं भानोः करा इत्यादौ विंशतित्वादी बहुत्वान्वयविवक्षो तु बहुवचनमपि प्रमाणं यथा “असंख्याताः सहस्राणि ये सट्रा अधिभूग्यामि"ति श्रुतौ तिखः कोल्यो ऽधकोठी च तीर्थानां वायुरब्रवीदि"ति पुराणे । मग किमेकयैव विंशत्या बाहुभिस्त्वं विकत्थसे।
पश्य रावण नाराचैछिननि कति विंशती: ॥ - इत्यादी लोके च तथा प्रयोगदर्शनात् । ते शतानि वयं पञ्चेत्यत्र बहुवचनान्ततच्छब्दविशेषणात् । संख्य यवाचिन: शतशब्दाबहुवचन बहुवचनान्तास्मच्छब्दविशेषणात्यञ्चशब्दाबहुवचनञ्च साधुत्वार्थमेव । एवं दशशतान्यम्भोजसंवर्तिका 'इत्यादौ संख्ये यवाचिनो दशशब्दस्यार्थः संख्य यवाचिशतशब्दार्थे तादाम्येनान्वेति । शिखी विनष्ट इत्यादाविव सविशेषणेहीति न्यायेन शतत्त्वसंख्यामादाय पर्यवसानं शतत्वे दशवविशिष्टतादात्म्यावगमे सहखत्वसंख्यालाम इति । जातिगतैकवविवक्षायामेकवचनं बहुवचनं च प्रमाणम् । “जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्यामि"त्यनुशासनात् । जातिरूपे एकस्मिन्नथें बहुवचनमेकवचनं च स्यादिति मत्रार्थः । यथा सम्पन्नो ब्रीहिः सम्पन्ना ब्रीहय इत्यादौ वोहित्वनातावकत्वमेकवचनबहुवचनाभ्यां प्र