________________
प्रथमाविभक्तिविचारः। वन्नित्य द्विवचनान्तोऽपि न हित्वविशिष्टवाचकः येन निराकाश्तया नान्वयः प्रमज्येत । ननु गगनपदस्य शब्दविशिष्टवाचकतया गगनपदार्थंकदेशे शब्दे वहुत्वान्वयविवक्षायां गगनानौति प्रयोगः स्यात् । एकदेशे:वयानभ्युपगमें पूज्यपादा इत्यवैकदेशे पूजायां बहुत्वान्वयो न स्यात् । एवं वेदाः प्रमाणमित्यव प्रमाणात्वेनैकत्वान्वयः स्यादिति चेत् । व्युत्पत्तिवैचित्रणान्वयोपगमेन समौहितसिद्धौ नैकदेशाऽन्बयोऽभ्युपेयते पूज्यपादा इत्यत्र पूजाविशिष्टपादे बहुत्वान्वयः पादे बाधात्पूजायां पर्यवस्थति शिखौ विनष्ट इत्यादिवत् । एवं प्रमाणमित्यत्र प्रमाविशेषितल्युडर्थकरणे एकत्वान्वयः करणे बाधाममायां पर्यवस्यति । तत्वापि स्वाश्रयशाब्दत्ववत्वसम्बन्धेन प्रमायामन्वेति सविशेषणे हौतिन्यायात् तदेव विशेषणं यत्सामान्यधर्मवतः व्यावर्तयति यथा घटे नौलादिः नौलान्यघटात् स्वाश्रयघटं व्यावतयति । शब्दस्तु नेदृशं येन गगनानौति प्रयोगः स्यात् प्रजा प्रमा चेदृशमेव विशेषणमिति सविशेषणे हौतिन्यायस्य विशेष्ये योग्यताया व आकाङ्काया अपि बाधः प्रापक एव सति विशेष्यबाधे इत्यस्य विशेष्यान्वयाभावे सतीत्यर्थ: । एवं वामे बहनकुशानित्यत्र बहुत्वविशिष्टकुशे बहुशब्दार्थ स्य बहुत्वविशिष्टस्य तादात्म्येनान्व. यो निराकास इति कुशविशेषणबहुत्वान्वयः पर्यवस्यति । बहुशवदोत्तरबहुवचनं साधुत्वार्थ मेव कुशशब्दोत्तरबहुवचनाबहुशब्दाच्च वित्वोपस्थितिस्तात्पर्यविशेषणैवेति । क्वचिदेकत्वस्याप्येवं रीत्याऽन्वयः । यथा