________________
विभक्त्यर्थनिर्णये ।
निमित्तं तव सप्तमौ भवतीति यथा ।
४४९
चर्मणि होपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् ।
केशेषु चमरौं हन्ति सोम्नि पुष्कलको हतः ॥ इत्यादौ सप्तम्याः प्राप्तिः खखामिभावादिसंबन्धोऽर्थः स तु धात्वर्थे हननादावनुकूलतयाऽन्वेति तथा च चर्मप्राप्तिफलकं द्दौपिननमित्यादिर्वाक्यार्थः । सौमाऽण्डकोशः । पुष्कलको गन्धम्मृगः ।
सौमाघाटस्थित क्षेत्रेष्वण्ड को शेषु च खियाम् । अथ पुष्कलको गन्धम्मृगे क्षपणकौलयोः ॥ इति मेदिनीकारः । सीमाघाटस्तज्ज्ञानार्थं पुष्कलकः शङ्कर्निहतो निखात इत्यर्थ इति हरदत्तः । निमित्तं फलं तत्र हेतु तृतीयावत् तादयंचतुर्थीत्म प्रमो भवतौति शाब्दिकाः । तत्त् चिन्त्यम् । न हि चर्म दौपिहननफलं हननात्प्रागेव दीपिचर्मणः सिद्धत्वात् । अध्ययनेन वसति यूपाय दारु चेत्यादौ वासात्मागध्ययनस्य दारुतः प्राक् यूपस्य च सिद्दत्वात् भवति वासस्याध्ययनफलकत्वं दारुणो यूपार्थकत्वं चेति यदि च होपिनं हन्तु चर्मप्राप्तिः किं तु बलादाहर्तुरन्यस्य तत्रापि दशितप्रयोगोऽभ्युपेयते तदा सप्तम्याः प्राप्तीच्चैवार्थस्तस्याः प्रयोज्यतया धात्वर्थे हननेऽन्वयः । श्रत एव ।
हन्तेः कर्मण्युपष्टब्धात् प्राप्तुमर्थे तु सप्तमी । चतुर्थी बाधिकामाज: शिलिभागुरिवाग्भटाः ॥ इति हरिरप्याह । उपष्टम्भः संयोगविशेषः स च कुञ्जरे हननकर्मणि दन्तयोरतिदृढः दौपिनि हननकमण्यवयवे आरम्भकसंयोग खरूपः गोत्वादिवत् हौपि
५७