SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ કર્ણ षष्ठीविभक्तिविचारः । न्तते तस्यै कुनखं जायते यथा वा अहल्यायै जार इत्यादी अत्र चतुर्थ्याः संबन्धोऽर्थः कुनखादावन्वेति । लोके तु तस्याः कुनखम् अहल्याया जार इत्यादौ षध्यदेव साधुरिति । अतसर्थप्रत्यययोगे षष्ठ विधत्तं " षष्यतसर्थ - प्रत्ययेनेति सूचं दक्षिणोत्तराभ्यामतसुजित्यनेनातसुज् विधौयते अत एवातसजर्धा ये प्रत्ययास्तैर्योगे षष्ठौ भवतीत्यर्थकम् । ग्रामस्य दक्षिणत उत्तरतो वा नchara षष्ठ्याः पूर्वोक्तमवधिमत्वमर्थो दक्षिणादावन्वेति । सप्तम्यन्तादिभ्यो विधानादतसर्थप्रत्ययानामाधेयत्वमर्थो नद्यादावन्वेति । तथा च ग्रामावधिक दक्षिणदेशविन्ध्यवृत्तिर्नदोत्यादिरन्वयबोधः । विन्ध्याहृचिणत इत्यादौ विन्ध्यमारभ्येतिल्यबन्तलोपे पञ्चमी बोध्या पुर अध इत्यत्रासिप्रत्ययः । पुरस्तात् अधस्तादित्यत्वास्तातिप्रत्ययः । नगरस्य पुरः पुरस्ताद्दा आरामः पर्वतस्याधो अधस्ताहा काननम् उपरि उपरिष्टादितिनिपातयोर्योगे पर्वतस्योपर्युपरिष्टादा मेघः । पञ्चादितिनिपातयोगेऽपि न्टपस्वपचादुपविशामः । ततः पश्चात्संस्यत" इति भाष्यप्रयोगात् पश्चाच्छन्दयोगे पञ्चष्यपि दर्शितरीत्या सर्ववान्वयो बोध्यः । एनबन्तयोगे द्वितीयां ज्ञापयति । "एन - पा द्वितीया" इति सूत्रम् । एनम्प्रत्यययोगे द्वितीया विभक्तिर्भवतौत्यर्थ कं'' षष्ठ्य पोष्यते" इतोट्या षष्ठ्यप्येनपा योगे भवति । ग्रामं ग्रामस्य वा दक्षिणेन नदीं ग्रामं ग्रामस्य वोत्तरेण नदीत्यादौ द्वितीयाषष्ठयोरवधिमत्वमर्थः । एनम्प्रत्ययस्याधेयत्त्वमर्थः पूर्ववदन्त्रयः “तचागारं धनपतिगृहादुत्तरेणास्मदीयं दूराल्लभ्यं सुरपतिधनुश्चा L
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy