________________
४३२
षष्ठीविभक्तिविचारः ।
का इति" सर्वो इन्दो विभाषैकवङ्गवती"त्येकवचनम् एतदर्थमेव भविष्यदाष मगर्ययोर्गम्यमानयोरिति व्याख्यातं गम्यमानत्वं तु प्रकृतिप्रत्ययाभ्यामन्येन ज्ञाप्यमानवं शतं दायीत्यादावपि णिनिप्रत्ययस्य कर्तवार्थः । आधमर्यं तु मानान्तरगम्यमेव इक्ष्वाकूणामित्यादौ ष
पपत्तिदेर्शितैवेत्यलं विस्तरेण । कृत्यप्रत्यययोगे वै कल्पिक षष्ठों ज्ञापयति । " कृत्यानां कर्तरिवेति सूवं कृत्यानां प्रत्ययानां योगे कर्तरि वा षष्ठौ भवतीत्यर्थकम् । मया मम वा सेव्यो हरि इत्यादौ तृतीयाषष्ठयोः कर्तृ त्वमर्थः सेवने धात्वर्थेऽन्वेति यथा च मत्कतृ कसेवन कर्म हरिर्वाक्यार्थः । एवं भवता भवतो वा कटः कर्तव्य इत्यादावपि वाक्यार्थी बोध्यः । कर्तरीत्युपादानात् कर्मणि न षष्ट्या विकल्पः यथा गेयो माणवकः सानामित्यादौ । श्रव" भव्य गेये" ति सूत्रेण कर्तरि भव्यगेयादिशब्दानां निपातनात् । श्रनभिहिते कर्मणि कृ'द्योगे षष्ठौ । पचेलिमा माषा इत्यादौ कर्मकर्तरि केलिमरादौ कर्मकरुभयोरभिधानात् । कृद्योगे न षष्ठोति ।" उभयप्राप्ती कृत्ये षष्ठ्याः प्रतिषेधो वक्तव्य" इति गुणकर्मणि षष्ठा निषेधः । यथा नेतव्याः व्रजे गावः 'कृष्णेन कृष्णस्य वेत्यादौ । अत्र व्रजादौ गुणकर्मणिन षष्ठोति ।
इति विभक्त्यर्थनिर्णये कारकषष्ठा निर्णयः ।
-