SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । योगफलकव्यापाराश्रयत्वं वाक्यार्थः हिंसायामित्युपादानात् । धानाः पिनष्टोत्यत्र कर्मणि न षष्ठौ आरम्भकसंयोगनाशफलिकाऽऽरम्भ संयोगफलिका व पार्थिवक्रिया विजातीया पिनष्टेरर्थस्तवादद्यं फलमादाय मार्ष पिनष्टौतिप्रयोगः द्वितीयं फलमादाय धानाः पिनष्टीतिप्रयोगः । व्यवहृपणोः कर्मणि षष्ठीं ज्ञापयति । "व्यहृपणः समर्थयोः" इति सूत्रम् । व्यवहृपण दूत्येतयोर्धात्वोः समर्थयोः समानार्थयोः कर्मणि षष्ठी भवतौत्यर्थकं द्यूते क्रयविक्रयव्यवहारे चानयोर्धात्वोः तुल्यार्थता शतस्य व्यवहरते पणते वा इत्यादौ द्यूतं क्रय विक्रयश्च व्यवहरते पणतेश्चार्थः त्यागलाभान्यतरफलकाचपातनादिव्यापारो द्यूतं त्यागे स्वत्वनाशप्रकारतानिरूपित विशेष्यत्वस्य तत्संबन्धावच्छिन्नाधेयत्वस्य वा कर्मत्वस्यान्त्रयः लाभः खत्वेच्छा तत्र स्वत्वप्रकारतानिरूपितविशेष्यत्वस्य तत्संबन्धावच्छिन्नाधेयत्व - स्य वा कर्मत्वस्यान्वयस्तथा च शतकर्मता कत्यागस्य शतकर्मता कस्य लाभस्य वा फलकं यदक्षपातनादिक तदनुकूलकृतिञ्चार्थः क्रयो विक्रयश्च प्रागेव निरुतस्तव कर्मत्वान्वयो ऽपि दर्शित एवेति शतकर्मताकक्रयकर्तृत्वं शतकर्मता कविक्रयकट त्वं च वाक्यार्थः समर्थयोरित्युपादानात् । शलाकां व्यवहरतीत्यादी कर्मणि न षट्टो व्यवहरतेगंगानार्थकत्वात् । च शलाका कर्माकपरिगणनकर्तृत्वं वाक्यार्थः । एवं ब्राह्मणं पणायतौत्यादावपि कर्मणि न षष्ठी पणते स्तुत्यर्थकत्वात् अत एवावाय प्रत्ययः " स्तुत्यर्थस्य प तथा S ४११
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy