SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये। साध्यवाचिपदस्य जाने लक्षणाविरहात् यदपि रूढिप्रयोजनान्यतराभावो लक्षणाबाधकइत्युक्तं तत्र दर्शितनिर्देशाढूढेरेव जागरूकत्वमन्यथा ज्ञापकत्वे पञ्चम्या अपि लक्षणाविरहप्रसङ्गात् । ननु साध्यहेतुपदयो ने लक्षाणाऽभ्युपगमेऽपि जलं स्पर्शवत् रूपान्न गन्धादित्यादौ निषेधप्रतीत्यनुपपत्तिस्तथा हि नञा न तावज्जले गन्धजाप्यस्पर्शस्यात्यन्ताभावस्तहदन्योन्याभावो वा बोधयितुं शक्यते जलपक्षकनमात्मकगन्धपरामर्शानुमेयस्पर्शस्य सत्त्वात् अत एव स्पर्शज्ञाने गन्धज्ञानजन्यत्वाभावोऽपि न बोधयितुं शक्य इति न वा गन्धप्रमाऽनुमेयस्पर्शस्यात्यन्ताभावादिस्तथा पृथिवीपक्षकगन्धप्रमाऽनुमितिविधेयताऽवच्छेदकस्पर्शत्वावच्छिन्नस्य जले सत्त्वात् न च स्पर्शत्वावच्छिन्नस्य जले सत्त्वापि गन्धप्रमाऽनुमेयस्पर्शव्यक्तः पृथिवीत्तरत्यन्ताभावोऽविकल एवेति निषेधप्रतीत्युपपत्तिरिति वाच्यं तथाऽपि जलं द्रव्यत्ववत् स्पर्शान्न गधादित्यत्र गन्धप्रमाऽनुमेयट्रव्यवव्यक्तर्जले सत्त्वान्निषधप्रतीत्यनुपपत्तेः अत एव द्रव्यत्वज्ञाने गन्धप्रमाहेतुकवाभावो न तथा पृथिवीपक्षकद्रव्यत्त्वानुमितो गन्धप्रमाहेतुकत्वस्य सत्वात् । न च कस्याश्चिद्रव्यत्वानुमितेर्ग. न्धप्रमाहेतुकत्वेऽपि सर्वस्या न तथात्वमिति निषेधप्रतीत्युपपत्तिरिति वाच्यं तथासति पृथिवी द्रव्यत्ववती स्पर्शान्न गवादित्यादिप्रयोगप्रसङ्गात् स्पर्शलिङ्गकद्रव्यत्वानुमितेर्गन्धप्रमाहतुकत्वाभावात् निषेधप्रवीत्यापत्तेरत एव द्रव्यत्वे गन्धज्ञानत्ताप्यत्वाभावोऽपि न प्रतीयते बाधादिति चेत् । अत्र गुरुचरणाः गुरुमत प्रतिज्ञादिहेत्वन्तभागात .
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy