________________
३७०.
पञ्चमीविभक्तिविचारः ।
श्रयः भेदवानित्यच भेदसंबन्धी प्रतीयते । नअपदं न भेदविशिष्टार्थकमिति तद्योगे न पञ्चमी किं च प्रथमोपात्ता प्रथमैव न चैवं गुणाइदो द्रव्यस्येत्यादौ भेदशब्दस्य विशिष्टार्थवत्त्वाभावात् भेदमावार्थकतथा पञ्चम्यनुपपत्तिरिति वाच्यं गुणाद्वैधर्म्यमित्यत्रेव गुणाद इत्यादावपि विभक्तपञ्चमीसम्भवादित्यस्य वक्ष्यमाणत्वात् । भवतु वाऽन्यशब्दस्य भेदार्थकः शब्दः पर्यायस्तथापि सूत्रे निपातातिरिक्तपर्यायस्य ग्रहणात् नञ्पदयोगे न पञ्चमौति । यन्तु अन्यपदस्य पृथक्त्वगुणविशिष्टोऽर्थ : - थकत्वार्थक शब्द एव पर्याय: भिदिधातोरपि पृथक्त्वमेवार्थः नञ्पदं तु न पृथक्त्वार्थकमिति तद्योगे प
मौ न भवतीति अत एव पृथक्वगुण सिडिरिति तशुच्छम् । अन्यादिशब्दस्य पृथक त्वार्थकत्वासम्भवात् । दादन्यो गुण इत्यादिप्रयोगानुपपत्तेः । भिदेरपि पृथक्त्वमर्थः । द्रव्यात्कर्मादिभ्यश्च भिद्यते गुण इत्यादिप्र योगात् गुणे गुणानङ्गीकारात् पृथक्त्वान्वयासम्भवात् भेदस्यान्वयसम्भवात् भेदार्थकत्वावश्यकत्वात् भेदत्वस्याखण्डोपाधितया शक्यतावच्छेदक गौरवविरहात् प्रकृते लक्षणानुपपत्तेः पृथक्त्वसिद्दिस्तु मल्लान्मल्लोऽपयाति मेषान्मेषोपसरतीत्यादौ पृथक्त्वस्यापि पञ्चम्यर्थतया तब प्रकृत्यर्थस्याधितयाऽन्वयस्तथाविधस्य पृथक्त्वस्य क्रियायां सामानाधिकरण्येनान्वयः । न चात्र भेदः पञ्चम्यर्थस्तस्य प्रतियोगितावच्छेदकतया क्रियायामन्त्रय इति वाच्यम् । परस्परस्मान्मल्लौ मेषौ वा अपसरत इत्यादावपादानकर्त्रीरुभयोः क्रियावत्त्वाद्वेदान्वयासम्भवा