SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । ३४३ प्रयोज्यताविशेषस्य हेतुतासामान्यविलक्षणस्य धार व भय एवान्वयात् न कारकत्वहानिरिति । व्यावाद बिभेतीत्यत्र पञ्चम्यर्थे दर्शितप्रयोज्यत्वे निरूपकतथा प्रकृत्यर्थस्यान्वयः तथाविधप्रयोज्यत्वस्यानिष्टसभावनाजन्यदुःखे भयेऽन्वयः तथा च व्याघ्रप्रयोज्यं भयं वाक्यार्थः व्याघ्रादेः स्वविशेष्य का निष्टसाधनताज्ञानादिमहतसंबन्धज्ञानद्दारा निष्टोत्पत्ति सम्भावनाजन्यदुःखप्रयोजकत्वं सन्निधिखरूपस्य संबन्धस्यातिशयस्वरूपप्रकर्षेण ज्ञानं सम्भावना कोटेरनिष्टोत्पत्त रुत्कटएवं प्रयोजयति । अथ वा ऽनिष्टोत्पत्ते रवधारणमेव जनयतौत्युभयथा दुःखमुत्कटं प्रयोजयतीति सन्निधिप्रकषण भयप्रकर्षः इत्थं च द्वितौयादि भयमिति श्रुतिः भये द्वितीयहेतुकत्व परिसंख्यां बोधयतोतरथा द्वितीयादित्यस्य व्यर्थतापत्तेः परिसंख्या तु प्रकृते द्वितीयाऽन्यहेतुकत्वस्य स्वहेतुकत्व पर्यवसन्नस्य व्यवच्छेदः भयस्य स्वतुकत्वं न सम्भवति स्वसंनिधिज्ञानस्यानिष्टोत्पत्तिसम्भावनां प्रत्यप्रयोजकत्वात् अन्यथा सोऽहमात्मना संबद्ध हूत्या करके सकलदुःखोच्छेदप्रयोजके ज्ञाने विद्यमाने भ यापत्तेः एवं नरकाद्दिभेतीत्यादौ नरकपदस्य कुम्भीपाकादिसंबन्धज्ञानं शरीरतापाद्यनिष्टोत्पत्ति सम्भावयति सम्भावना तु दु:खं जनयतीति नानुपपत्तिः नरकपदस्य सुखासम्भिन्नदुःखपरता न युज्यते तथासति दुःखादव्यथाय वा विभेतौतिप्रयोगापत्तेः भयातव्यमित्यादौ भयपदस्य भयजनके व्याघ्रचौरादो लक्षणेति नानुपपत्तिः यदि च दुःखाद्विभेतौतिप्रयोगोऽभ्युपेयते
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy