________________
३४२ पञ्चमीविभक्तिविचारः । प्रयोजको व्यापारस्तल्कर्तृत्वं वाक्यार्थ: नन्वेवं "स्वल्पमप्यस्य धर्मस्य वायते महतो भयादि त्यत्र भयात् नातुं दातुमित्यत्र चानन्वयापत्तिः भयस्य द्वेषतया वागणस्य तदभावानुकूलव्यापारतया हषविषयकषाप्रसत्या भयहेतुकवाणाप्रसिद्धेः भयस्यानिष्टसम्भावनास्वरूपत्वे तु त्राणस्यानिष्टानुत्पादकव्यापारस्वरूपतयाऽ निष्टमम्भावनाहेतुकानिष्टान्तरस्य सम्भवान्नान्वयानुपपत्तिरिति चैन्मैवं तथा हि भयस्य वेषविशेषस्वरूपस्य दुःखविशेषसाधनत्वमनुभवसिद्धमिति भाविभयगोचरभयसम्भवात् भयगोचरभयानुत्पादनस्वरूपत्राणस्य नाप्रसिद्धिरिति अत एव हितोयाधि भयमिति श्रुत्या स्वस्यापि भयमिति परिसंख्यायते देषस्य विषयस्वाभाव्येन विषयतया इषं प्रति द्वेषसमवायिभेदस्य हेतुत्वाखविषयकभयाप्रसिद्धेः भयस्यानिष्टसम्भावनास्वरूपत्वे तु स्वहेतुकानिष्टसम्मा- .. बनाया: सम्भवान्न परिसंख्यानसम्भव इति गुरुचरणाः। वस्तुतस्तु अनिष्टोत्पत्तिसम्भावनाजन्यदुःखं भयमनिष्टं च दुःखप्रयोजकतावच्छेदकधर्मविशिष्टं मरणादि तत्व- . यधर्मावच्छिन्नस्य येन संबन्धेन मरणादिसाधनत्वमवगतं स्वस्मिन् तदर्मावच्छिन्नस्य तत्संबन्धज्ञानं मरणाद्यनिष्टोत्पत्तिसम्भावनाया जनकं सा तु दुःखं जनयति तथा मरणादिसाधनतयाऽवगतस्य व्याघस्य स्वस्मिन्सन्निधिसंबन्धनानं मरणाद्युत्पत्ति सम्भावयति सम्भावना तु दुःखं जनयति अनिष्टसाधनताजानादिसहकृतसंबन्धज्ञानप्रयोज्यत्वखरूपं भय हेतुकत्वमीदृशप्रयोज्यताविशेषलाभार्थमेव सूचे भयपदमौदृश