________________
विभक्त्यर्थनिर्णये। वत् पुष्पमित्यन्वयबोधः । विषयताया इच्छादिसमानकालिकत्वात् त्यते पुष्पादौ न नम:पदप्रयोगः । नम:खाहादिपदानां प्रयोक्त पुरुषोयत्यागार्थका त्वादन्यदीयत्यागेऽन्यस्य न नमःखाहादिपदप्रयोगः प्रीतीच्छाप्रयोज्यत्वं खत्त्वनाशान्वय्येवोपपद्यते यतः प्रौतीच्छाप्रयोज्यस्वत्वनाश एव देवतानां स्वत्वं संबन्धः शिवस्य पुष्पमित्यादौ षयर्थतया प्रतौयते तत्र हि प्रीतीच्छाप्रयोज्यत्वस्य त्यागविशेषणत्वे विशिष्टत्यागस्य प्रयोज्यतया स्वत्वनाशघटकत्वे परम्परासंबन्धगौरवं स्यात् तस्य स्वत्वनाशविशेषणतया परम्परासंबन्धघटकरवे दर्शितसंबवस्य लाघवमेव न वा प्रीतीच्छायास्सत्ययोज्यत्वस्य वा चतुर्थ्यर्थस्य नमःपदार्थे त्यागेऽन्वयो युज्यते तथासति मौतेकद्देश्यतया त्यागेऽन्वयेनैव तादृशप्रयोगसम्भवात् शिवादेः प्रौतिबाधेऽपि बाधितोहेश्यताकेच्छासम्भवात्। अग्नये जुहोती त्यादौ संप्रदानत्वस्य प्रीतेनमःपदार्थान्वयोपगमे धातुं विना स्वविशेषणकशाब्दविषयत्वात्कारकत्वहानिप्रसङ्गात् शिवाय नम इति मन्त्रवाक्ये शिवादीनां देवतात्वं मन्त्रलिङ्गेनावगम्यते यथा त्रातारमिन्द्रमवितारमिन्द्रमितिमन्त्रेण प्रकाश्यमानस्येन्द्रस्य देवतात्वं तच्च त्यागार्थकनमःस्वाहादिपदसमभिव्याहृतचतुर्थ्यन्तपदप्रतिपाद्यत्वमथ वा नमःस्वाहादिपदप्रतिपाद्यस्य त्याग प्रकारस्वत्वनाशस्य प्रयोजिकायाः प्रौतौच्छाया विषयत्वं प्रागुक्तविशेष्यत्वस्वरूपं बोध्यमिति यत्र पदे। न वृत्त्योपस्थापितेऽर्थे पदान्तरार्थस्यान्वयेन वाक्यार्थतया देवतात्वं प्रतीयते तत्र श्रोतं तदुच्यते यथा ऐन्द्रं दधि