________________
३०३
विभक्त्यर्थनिर्णये । भाववचनाश्चेति सूत्रेण घादौनां भावप्रत्ययानां कियार्थत्वं प्रत्याय्यते तच्च पूर्ववत् फलस्य ज्ञानेनेच्छया वा हारा प्रयोजकत्वं तथा च घञः प्रयोज्यत्वमर्थ स्तच्च गमनान्वेति तत्र पाकादिशब्दात् हितोयादिप्रसक्तिविरहेण प्रथमप्राप्ततया प्रथमा प्राप्ता तदपवादाय साधुत्त्वार्था चतुर्यनुशिष्यते पाकाय गच्छ्रतीत्यत्र पाकप्रयोज्यं गमनं वाकमार्थ एतेन भावघञन्तात्तादर्थ्य चतर्ये पाकाय ब्रजतीतिप्रयोगोपपत्त्या तुमर्थादिति भाववचनाचे ति चानुशासनहयं व्यर्थमिति निरस्तम् । कियायाः कियान्तरार्थत्वे विशेषतस्तुमुनो विधानेन घजोऽप्रहत्तेर्भावबचनाश्चेत्यस्यात एव क्रियायाः कियान्तरार्थत्वस्य तादर्थ्यत्वविरहेण तादयचतुर्यप्रसत्या प्रथमापवादकचतुथी विधायकस्य तुमर्थादित्यस्य च सार्थक्यसंभवादित्याहुः । वस्तुतस्तु भाववचनाश्चेति सर्व तुमुर्थादितिसूत्रेण चतुर्थीविधानार्थमेव चतुर्थी विना किया थंभाववचन प्रयोगस्य क्वाप्यदर्शनात् तथा च कियायाः कियान्तरार्थत्वस्वरूपस्तुमर्थश्चता अर्थस्तत्र कियाइयस्य धातुलभ्यतया प्रयोज्यत्वमा तुमुन इवास्या अप्यर्थ: भाववचनाश्चेति सूत्रं तुमर्थादित्यत्र भाववचनादिग्रहणां चेच्छादिस्वरूपे तमर्थं चतुर्थीप्रसक्तिवारणार्थमेव पाकायेत्यत्र सुब्विभक्तेः प्रातिपदिकप्रकृतिकतया घादिविर हे चतय॑नुपपत्तरिति भावः एवं घनादिप्रयोज्यत्वं च फलज्ञानादिहारकं पूर्ववोध्यम् । एवं पाकाय व्रजति भोजनाय प्रविशति मुक्तये ऽधीत इत्यत्र पाकप्रयोज्यं गमनं भोजनप्रयोज्यः प्रवेशो मुक्तिप्रयोज्य