SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ३०२ चतुर्थीविभक्तिविचारः । वाक्यार्थः । नृसिंहं प्रौणयितं नमस्कुर्म इत्यत्र नमस्कुर्मो नृसिंहायेतिप्रयोगस्तत्र नृसिंहप्रौणनप्रयोज्यो नमस्कारो वाक्यार्थः पटमुत्यादयितुं यतते इत्यत्र पटाय यतत इति प्रयोगस्तत्व पटोत्पादप्रयोज्यो यत्नो वाक्यार्थ: न चात्त्र विषयत्वं चतुर्थ्यथः पटविषयताको यत्नो वाक्यार्थ इति वाच्यं चतुर्थ्या विषयत्वार्थकत्वे अनुशासनविरहात् विषयत्वसामान्यस्य तदर्थत्वे पटत्वाय यतत इतिप्रयोगापत्ते: साध्यत्वस्य तथात्वे पटार्थतन्तुसधिने पटाय यतत इति प्रयोगानुपपत्त : उद्देश्यत्वस्य तथात्वे स्वगंकामो गङ्गास्नानाय यतत इतिप्रयोगानुपपत्तेः न चात्र तादयविधानात् चतुर्थ्या जनकत्वमर्थः पटजनको यत्नो वाच्यार्थ इति वाच्यं तथासति तन्तुसाधने पटानुत्पादे पटाय यतत इतिप्रयोगस्याप्रामाण्यापत्तः कियार्थोपपदस्येत्युक्त्या प्रविश पिण्डौमित्यत्र न चतुर्थीभक्षेरत्त्र स्थानित्वात् कर्मगौत्युक्त्या फलेभ्यो गच्छति शकटनेत्यत्न करणे न चतुर्थों फलेभ्यो गच्छतौत्यनाहमित्यध्याहृतं तत्राहरणान्बयिकर्मत्वं चतुर्थ्यर्थ: फलकर्मकाहरणार्थक गमनं वाक्यार्थ इत्यपि वदन्ति । भाव कृदन्तात् प्रातिपदिकात् चतुर्थों ज्ञापयति । “तुमर्थाच्च भाववचनादि"ति सूत्रं तुमर्थाः कियार्थकियार्थका ये भाववचना भावप्रत्यया घञादयस्तदन्तात्यातिपदिकात् चतौं भवतीत्यर्थकं पाकाय गच्छतौत्यत्र चतुर्थ्यास्तुमर्थोऽर्थस्तुमर्थस्तु पक्तुं गच्छतौत्यत्र समानकर्तृकत्व मुद्देश्यत्वं च तथा च समानकर्तकं पाकोद्देश्यक गमनं वावयार्थ इति वदन्ति । शाब्दिकास्तु
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy