________________
२९२
चतुर्थीविभक्तिविचारः । कृष्णपदेन न प्रतिपाद्यते किं तु व्यञ्जनयाऽथ वा विप्रश्नानन्तरित शुभाशुभपर्यालोचनं राधीच्योरर्थ इति धातुनैव विप्रश्नगोचरताप्रत्याय्यते इति संप्रदाय: । वस्तुतस्तु विप्रश्नः शुभाशुभप्रश्न: शुभाशुभजितासाप्रयोज्यकिमादिशब्दघटितवाक्यमिति यावत् तत्र विप्रनस्तअयोजिका जिज्ञासा वा चतुर्थ्यर्थः दैवपर्यालोचने राधौच्योरथै प्रयोज्यतयाऽन्वेति चतुयथै जिज्ञासायां विषयितया प्रकृत्यर्थस्यान्वयः यत्संबन्धित्वेन शुभाशुभजिज्ञासा तस्यैव शुभाशुभविषयतानिरूपितविषयितया जिज्ञासायामन्वयः ईदृशविषयितयैव प्रकृत्यर्थस्यान्वयः तेन मैवपुत्वस्य किं शुभमशुभं वेति प्रश्ने मैत्राय राध्यतीति न प्रयोगः । एवं कृष्णाय राध्यतौक्षते वा गर्ग इत्यत्र कृष्णविषयशुभाशभजिज्ञासाप्रयोज्य शुभाशुभपर्यालोचनाश्रयो गर्ग इत्यन्वयबोधः । धात्वर्थघटकशुभाशुभे कृष्णसमवेतत्वमर्थात्प्रतीयते धात्वर्थो तादृजिज्ञासाप्रयोज्यत्वान्वयबलात् अत एव देवदत्तीय राध्यतीक्षते वा नैमित्तिकः पृष्टः सन् देवदत्तस्य दैवं पर्यालोचयतीत्यर्थ इति काशिका विप्रश्नवाक्यं म धात्वर्थे घटते न वा चतुयर्थः किं तु शुभाशुभजिज्ञासैव यत्र न प्रश्नवाक्यं स्वस्यैव शुभाशुभजिज्ञासा तत्रापि वराय कन्यायै बा राध्यति नैमित्तिक इति प्रामाणिकः प्रयोग इति । प्रत्या
पुर्वस्य शुवो योगे चतुर्थों ज्ञापयति । " प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता" इति सूत्रं प्रतिपूर्वकस्यापूर्वकस्य च शृणोतेः पूर्वस्य कर्ता तदर्थप्रयोजकक्रियाकर्ताऽस्य धातोर्योगे संप्रदानसंतो भवतीत्यर्थक प्रतिशृणोतेरा