SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । २८५ उत्तमग्रहणं देवदत्ताय शतं धारयति ग्रामे इत्यव ग्रामस्थ संप्रदानतानिषेधार्थमिति स्पृहेर्योगे चतुर्थी ज्ञापयति । "स्पृहेरौशितः" इति सूत्रं स्पृहेयोंगे ईसितो योऽर्थस्तत्कारकं संप्रदानसंत्तं भवतौत्यर्थकम् । ईशित इत्यवाभिप्रेत उच्यत इति काशिका पुष्पेभ्यः स्पृहयति रसिक इत्यव स्पृहेरभिलाषोऽर्थः चतुर्थ्यां विषयत्वमर्थः एवं पुष्पविषयताकाभिलाषाश्रय इत्यन्वयबोधः । स्त्रीषु प्रवीरजननी जननी तवैव देवी स्वयं भगवती गिरिजाऽपि यस्ये । त्वहोर्वशीकृतविशाखमुखावलोकव्रीडा विदौहृदया स्पृहयांबभूव ॥ इत्यत्र रेणुकासदृशौ भवेयमित्यभिलाषस्तत्र रेणुकाविषयत्वस्यानपायान्न चतुर्थ्या अनुपपत्तिः यदि च विषयत्वमाचं न चतुर्थ्यर्थः तथासति पुष्पत्वं स्पृहयतौति प्रयोगापत्तेः किं तु श्यत्वं तच्च दर्शिताभिलाषे न रेणुकाया: किं तु तत्सादृश्यस्येति यस्यै भगवतौ स्टहयतीत्यत्र चतुर्थी नोपपद्यत इति विभाव्यते तदा खीक्रियतां तादाम्येनोद्दश्य प्रकारकोऽभिलाषः ब्राह्मणोऽहं स्वामितौच्छाकारदर्शनात् ब्राह्मण इष्टसाधनं ब्राह्मणोऽहमिति ज्ञानइयेन विशिष्टत्ज्ञानेन वा तथाविधेच्छा जननसम्भवात् तथा च रेणुका भवेयमित्यभिलाष एवं स्पृहा तव रेणुकाया उद्देश्यत्वं निराबाधमिति चतुर्थ्यां नानुपपत्तिरिति संप्रदायः । वस्तुतस्तु पुष्पेभ्यः स्पृहयतीत्यव पुष्पादीनां सिडत्वादुद्देश्यत्वं न सम्भवतीति नोदेश्यत्वं चतुर्थ्यर्थः किं तु सूत्रे ईशितशब्दोपादानात् ई 99 -
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy