________________
૨૭૭
विभक्त्यर्थनिर्णये। थमाणे शयनानुकूलपल्यवस्थापने पत्ये पल्यत स्थापयतौति प्रयोगापत्तः तस्माद्यथा वृक्षपुष्टिः सेचनप्रयत्ने तथा पतिप्रोतिरपि शयनप्रयत्ने उद्देश्यित्वेनान्वेति अत: पुष्टिप्रौत्योरजनकयो: सेचनशयनयोन दर्शितप्रयोगानुपपत्तिः अजां ग्रामाय नयतीत्यत्र ग्रामसंयोगो न चतुयर्थः ग्रामसंयोगाजनके नयत्यर्थे दर्शितप्रयोगानुपपत्तेः नापि तदिच्छा ग्रामसंयोगेच्छया अजागहणे अजां ग्रामाय गृह्णातीति प्रयोगापत्तेर्गौरवाच्च गमेः शुद्धस्यन्दार्थकत्वे संयोगस्तदिच्छा वा चतुर्थ्यर्थ स्तत एव ग्रामाय गच्छतौति प्रयोगोपपतिरिति गत्यर्थकर्मणि चतुथीविधिः प्रत्याख्येय इत्यपि न युक्तं फलस्य संयोगस्य धातुलभ्यस्य चतुर्थ्या प्रतिपादनासंभवात् न च फलाविवक्षायां प्रतिपादनसम्भव इति वाच्यम् । तथा सति धारणसंयोगाविवक्षायां दण्डाय दधातीतिप्रयोगापत्तेः ग्रामाय चलति स्पन्दते चेत्यत्र चलतिस्पन्दयोः स्पन्दमोचार्थकतया संयोगरूपफलावाचकत्वात् चतुर्थ्या संयोगस्वरूपफलप्रतिपोदनसम्भव इति ग्रामस्य धात्वर्थान्यफलसंबन्धितयाऽभिप्रेततया सम्भवत्येव संप्रदानत्वं तण्डलायोदनाय वा पचतौत्यपप्रयोग एव यदि च प्रयोगस्तदा तण्डुलोपकारकत्वस्थोदनजनकत्वस्य चतुर्थ्या प्रतिपादनेनेयं तादाचतुर्थीति यदि च दण्डाय दधातोत्यादिबहुतरापप्रयोगोभ्युपगमात् धातो: फलाविवक्षायां कर्मणि संप्रदानचतुर्थीति मन्यते तदापि गत्यर्थकर्मणि चतुर्थीविधेन प्रत्यख्यानं यतः चतुर्थी हितोयया सह वैकल्पिको ग्रामादिप्रकत्यर्थविशेषितमा यत्वं सं