________________
२५८
तृतीयाविभक्तिविचारः ।
0
केन देवदत्तगृहा इत्यत्र समासेन गृहे देवदत्तखत्वस्य बोधने तच्छून्यगृहव्यावृत्तिप्रतीतेस्तत एव सम्भवात् टतीयान्तस्य वैयर्थ्यमेव काकेन एहा देवदत्तस्येत्यव काकस्य गृहे श्रन्तःप्रवेशप्रागभावनाशः संबन्धस्तृतौयार्थः स च काके प्रविष्टेऽन्यत्र गते चाविकल इति अन्तरप्रविष्टकाकस्य गृहस्य व्यावृत्तेरन्वयितावच्छेदको भवति सा व्यावृत्तिः समनियताभावानामैको स्वरूपभेदेऽपि लिङ्गतया देवदत्तखत्वशून्य गृहव्यावृत्तिं गमयति कमण्डलु - ना जटाभिरित्यच खसंयोगप्रागभावनाथः संबन्धस्ततोयार्थः स च तयोः सत्त्वासत्त्वदशायामविकल इति । अधृतक मण्डलोश्छावस्याधृतजटस्य तापसस्य व्यावृत्तेर्यथायोग्य मन्वयितावच्छेदको भवति अत एव इह न भवति कमण्डलुपाणिश्छात्र इति लक्षणस्य समासान्ततत्वादिति काशिका समासे तृतौया निषेधिका संगच्छते लक्षणं संबन्धः स च नाचमनरूपः पाणौ कमण्डलोः सम्भवतीति न समासेन बोधयितुं शक्य इति तृतीया निषेधानुपपत्तिः दर्शितसंबन्धस्तु कमण्डलो : पागौ सम्भवतीति समासेन बोधित इति तृतीयानिषेधो-पपत्तिरुक्तार्थानामप्रयोग इति न्यायादिति । छात्रेणेत्यव - छावस्य स्वाध्ययने छात्रप्रयोज्यनिवासप्रागभावनाशाधि-करणदेशाधिष्ठातृत्वमुपाध्याये संबन्धस्तृतीयार्थः च च छात्रनिवाससत्त्वासत्त्वदशायामविकल इति अच्छावस्य -छात्राकृतनिवास देशाविष्टातुरुपाध्यायस्य व्यावृत्तेरन्वयितावच्छेदको भवति एवमनया रीत्याऽन्यत्रापि सुधौभिहृह्यः संबन्ध इति । यत्तु वैशिष्टय तृतीयार्थः यस्य वै